Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 230
________________ भाष्यगाथाः ६३०-३७] पीठिका। १८९ मीति कृत्वा । तस्य पुरतः साधुभिरभिधातव्यम्-भद्र ! न वयं भवन्तं द्रमकं भणित्वा कस्येति पृच्छामः किन्तु सार्वज्ञोऽस्माकमयमुपदेशः, यतः-कदाचित् तव खजन-परिजनमित्रादीनां सत्कमिदं भवेत् , ते चापरस्य तथाविधस्याभावेऽप्रीतिकं कुर्युः अभिनवं वा वस्त्रं सम्मूर्च्छयेयुः क्रीणीयुर्वा, अस्माकं च तृतीयत्रतातिचारः स्यात् ; यद्वा श्रमणादिभिः स्तेनपर्यन्तैरिदमस्मदर्थ स्थापितं भवेदित्यादयो दोषाः कस्येत्यपृच्छायां न परिहत्तुं शक्यन्ते । इत्युक्ते यदि स ब्रूयात्-"ममैवैतद् नान्यस्य' इति तदा निर्दोषं मत्वा प्रतिगृह्यते । एवं दुर्भगादिष्वपि पदेषु यथायोगमुपयुज्य भावना कार्या ॥ ६३३ ॥ दुर्भगद्वारमाह जइ रन्नो भजाए, व दुभगो दूभगा व जइ पइणो । किं भगो मि तुम वि, वत्था वि व दभगा किं मे ॥ ६३४ ॥ दुर्भगो ब्रूयात्—यद्यहं राज्ञो भार्याया वा 'दुर्भगः' द्वेष्यस्तत् किं युष्माकमपि दुर्भगः । 10 यदि वा काचिदविरतिका दात्री तदा यात्यद्यहं पत्युर्दुभंगा तत् किं युष्माकमपि दुर्भगा? वस्त्राण्यपि वा किममूनि मे दुर्भगाणि यदेवं दीयमानान्यपि 'कस्य सत्कानि ?' इति पृच्छयन्ते ॥ ६३४ ॥ अथ भ्रष्ट-श्रमणच्छन्नद्वारद्वयमाह जइ रज्जाओ भट्ठो, किं चीरेहिं पि पिच्छहेयाणि । __ अस्थि महं साभरगा, मा हीरेज त्ति पव्वइओ ॥ ६३५ ॥ 15 रौजपदच्युतः प्राह-~-यद्यहं राज्याद् भ्रष्टः तत् किं चीवरेभ्योऽपि ? नैवेत्यर्थः, 'पश्यत' अवलोकयत एतानि मद्गृहे भूयांसि वासांसीति ब्रुवन् हस्तसंज्ञया दर्शयति । श्रमणच्छन्नः प्राह-सन्ति मम पार्चे बहवः “साभरग"त्ति देशीवचनाद् रूपकाः, ते च माँ राजकुलादिना हियेरन्नित्यहं 'प्रवजितः' शाक्य-तापस-परिव्राजका-ऽऽजीवकाख्यानां श्रमणानामन्यतमः संवृत्त इत्यर्थः ॥ ६३५ ।। अथ स्तेनको यद् ब्रूयात् तदाह __ अस्थि मे घरे वि वत्था, नाहं वत्थाइँ साहु ! चोरेमि । सुट्ट मुणिअंच तुम्भे, किं पुच्छह किं व हं तेणो ॥ ६३६ ॥ सन्ति 'मे' मम गृहे वस्त्राणि अत एव हे साधो ! नाहं वस्त्राणि चोरयामि; यद्वा 'सुष्ठ' शोभनं 'मुणितं' परिज्ञातं युष्माभिर्यथाऽहं स्तेनः, को नाम साधून् मुक्त्वाऽपरो ज्ञास्यति ? तदहं सत्यं स्तेन एव, न पुनः साधूनामर्थाय चोरयामि; अथवा किं यूयं पृच्छत ? यस्य वा 25 तस्य वा भवतु यूयं गृह्णीत; यद्वा किमहं स्तेनो येन यूयं 'कस्य' इति पृच्छथ ? । अत्रापि समाधानविधानं प्राग्वत् ॥ ६३६ ॥ अथ कस्येति पृच्छाप्रतिबद्धामेव द्वारान्तरप्रतिपादिकामिमा गाथामाह इत्थी पुरिस नपुंसग, धाई सुण्हा य होइ बोधव्वा । बाले अ वुड्डयुगले, तालायर सेवए तेणे ॥ ६३७ ॥ १ भा. ले. कां. विनाऽन्यत्र-त्, तथाऽपरस्य तथा त० मो०। त्, यथा यस्य तथा डे. ॥ २°कं तु तृ' डे० ॥ ३ राज्यप डे० ले० विना ॥ ४ मा केनचित् चौरादिना हि भा० ॥ ५°मां नियुक्तिगाथा मो० ॥ 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296