Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 214
________________ भाष्यगाथाः ५९३-६००] पीठिका । १७३ यतिभ्यः किल दत्तत्वात् । ततो वर्ण्यत इति वा भवति सा पूर्वकृतेति ॥ ५९७ ॥ पासंडकारणा खलु, आरंभो अभिणवो महावजा । समणट्ठा सावजा, महसावजा उ साहूणं ॥ ५९८ ॥ यत्र बहूनां श्रमण-ब्राह्मणप्रभृतीनां पाषण्डानां कारणात्-कारणेन खल्वारम्भोऽभिनवः क्रियते सा महावा । 'श्रमणार्थी' पञ्चानां श्रमणानामर्थाय कृता सावद्या । या पुनरमीषा-5 मेव साधूनामर्थाय कृता सा महासावद्या ॥ ५९८ ॥ जा खलु जहुत्तदोसेहिँ वजिया कारिया सहाए । परिकम्मविप्पमुक्का, सा वसही अप्पकिरिया उ ॥ ५९९ ॥ या पुनः 'यथोक्तदोषैः' कालातिक्रान्तादिलक्षणैर्वर्जिता केवलं खस्य-आत्मनोऽर्थाय कारिता परिकर्मणा च विषमुक्ता सर्वस्यापि परिकर्मणः खत एवाग्रे प्रवर्तितत्वात् सा वस- 10 तिरल्पक्रिया वेदितव्या ।। ५९९ ॥ सम्प्रति यतनां दर्शयितुकाम इदमाह हिडिल्ला उवरिल्लाहि बाहिया न उ लभंति पाहनं । पुन्वाणुनाभिणवं, च चउसु भय पच्छिमाभिणवा ॥ ६००॥ अधस्तन्य उपरितनीभिर्बाध्यन्ते, बाधिताश्च सत्यः 'न तु' नैव लभन्ते प्राधान्यम् । इयमत्र भावना-नवापि वसतयः क्रमेण स्थाप्यन्ते, तत्राप्यल्पक्रिया निर्दोषेति प्रथमम् । तद्यथा-15 अल्पक्रिया कालातिक्रान्ता उपस्थाना अभिक्रान्ता अनभिक्रान्ता वा महावा सावद्या महासावद्या च । अत्राधस्तनी अल्पक्रिया, अस्यां यद्यतिरिक्तं कालं तिष्ठति ततः सा कालातिक्रान्तया बाध्यते, सा कालातिक्रान्ता भवतीति भावः । कालातिक्रान्तामपि यदि प्रागभिहितखरूपां कालमर्यादां द्विगुणां द्विगुणामपरिहृत्योपागच्छन्ति ततः सा उपस्थानया बाध्यते, उपस्थाना सा भवतीति भावः । एवं यथासम्भवमुपयुज्य वक्तव्यम् । “पुवाणुन्न"ति आसां 20 च नवानां शय्यानां मध्ये पूर्वस्याः पूर्वस्याः अनुज्ञा वेदितव्या । किमुक्तं भवति ?-नवानां शय्यानां मध्ये या पूर्वा अल्पक्रिया सा तावत् प्रथममनुज्ञाता, लेशतोऽपि सावद्याभावात् । तस्या अभावे शेषाणां मध्ये कालातिक्रान्ता पूर्वा सा अनुज्ञाता, अल्पक्रियाया अलाभे सा आश्रयणीया इति भावः; तस्या अप्यलाभे शेषाणां पूर्वी उपस्थाना सा अनुज्ञाता; एवं या या पूर्वा सा सा अनुज्ञाता तावद् वक्तव्या यावत् सावद्या महासावद्यायाः पूर्वा सा अनुज्ञाता । 25 एवं पूर्वस्याः पूर्वस्या अलाभे उत्तरस्या उत्तरस्या अनुज्ञा वेदितव्या । "अभिणवं च चउसु भय"ति चतसृषु वसतिषु अभिनवेति दोषः सम्बध्यते अभिनवं दोषं 'भज' विकल्पय, कदाचिद् भवति कदाचिन्न भवतीति जानीहीत्यर्थः । अत्रापीयं भावना-अनभिक्रान्तायामपरिभुक्तेति कृत्वा चिरकृतायामप्यभिनवदोषो भवति, वादिषु पुनर्याः परिभुक्तास्तासु नाभिनवदोषः, एषा भजना । “पच्छिमाऽभिनव"त्ति पश्चिमो नाम महासावद्योपाश्रयः तस्मिन्नभिनवकृते वा 30 चिरकृते वा परिभुक्ते वा अपरिभुक्ते वा अभिनवदोषा भवन्ति, एकपक्षनिर्धारणात् । एतैर्मूलगुणादि(ग्रन्थानम्-४५००)दोषैर्यः परिहत्तुं जानाति स ग्रहणे कल्पिकः ॥ ६०० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296