Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 221
________________ सनियुक्ति-भाष्य-वृत्तिके वृहत्कल्पसूत्रे [अनुयोगाधिकारः प्रावृत्य च पुरातनं स्थापयितुकामो न तावदद्यापि स्थापयति इत्यत्र अन्तरा-अपान्तराले यद् याच्यते तदन्तरावस्त्रम् । तथा उज्झनम्-उज्झितं परित्याग इत्यर्थः, धर्मशब्दश्च यद्यपि "धर्मो यमोपमा-पुण्य-खभावा-ऽऽचार-धन्वसु ॥ (हैमाने० द्विख० ३३५) सत्सङ्गेऽहत्यहिंसादौ, न्यायोपनिषदोरपि ।" (हैमाने० द्विख० ३३६) । इति वचनादनेकेष्वर्थेषु रूढः तथाऽपीह प्रक्रमात् खभावार्थो द्रष्टव्यः, तत उज्झितमेव धर्मः-खभावो यस्य तदुज्झितधर्म परित्यागाहमित्यर्थः । एतच्च वस्त्रैषणासूत्रक्रमप्रामाण्यात् चतुर्थमेव चतुर्थकं भवति । एताश्चतस्रः 'प्रतिमाः' प्रतिपत्तयो वस्त्रस्य ग्रहणप्रकारा इत्यर्थः, “गच्छ"ति सूचकत्वात् सूत्रस्य गच्छवासिनामेताश्चतस्रोऽपि भवन्ति । "जिणे"त्ति जिनकल्पिकानां यावजीवं द्वयोरुपरितनयोः आङ्-मर्यादया ग्रहः-खीकार आग्रहः, द्वयोरेवोपरितन10 योग्रहणं नाधस्तनयोयोरित्यर्थः । तत्राप्यन्यतरस्यामभिग्रहः, किमुक्तं भवति ?—यदा तृती यस्यां ग्रहणं न तदा चतुर्थ्याम् , यदा चतुर्थ्यां न तदा तृतीयायामिति नियुक्तिगाथासमासार्थः ॥ ६०९॥ अथैनामेव विवृणोति __उद्दिट्ट तिगेगयरं, पेहा पुण दगु एरिसं भणइ । अन्न नियत्थऽत्थुरिए, इतरऽवर्णितो उ तइयाए ॥ ६१०॥ 15 'उद्दिष्टं' गुरुसमक्षं प्रतिज्ञातं यद् जघन्य-मध्यमोत्कृष्टलक्षणस्य त्रिकस्य एकेन्द्रिय-विकलेन्द्रिय पञ्चेन्द्रियनिष्पन्नवस्त्रत्रिकस्य वा एकतरम् तदेवादृष्टं सद् याच्यमानमुद्दिष्टमिति भाविता प्रथमा प्रतिमा । अथ द्वितीया भाव्यते-“पेहा पुण"त्ति प्रेक्षावस्त्रं पुनरिदम् , यथा-कोऽपि साधुः कस्याप्यगारिणः सत्कं वस्त्रं दृष्ट्वा भणति-'यादृशमेतद् वस्त्रं दृश्यते तादृशमिदमेव वा मे प्रयच्छ' इति भणन् तदेव वस्त्रं हस्तप्रान्तेन दर्शयति तत् प्रेक्षावस्त्रेमिति द्वितीया प्रतिमा । 20 सम्प्रति तृतीया भाव्यते-तस्याश्चान्तरीयोत्तरीयवस्त्रयुगलद्वारेण प्ररूपणा कर्तव्या । तथा च श्रीमद्आचाराङ्गे द्वितीये श्रुतस्कन्धे प्रथमेऽध्ययने प्रथमोद्देशके सूत्रमिदम् अहावरा तच्चा पडिमा-से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा, तंजहाअंतरिज्जगं वा उत्तरिज्जगं वा ।। अथ किमिदमन्तरीयम् ? किं वा उत्तरीयम् ? उच्यते-अन्तरीयं नाम निवसनं परिधा25 नमित्यर्थः, उत्तरीयं नाम प्रावरणं प्रच्छदपटीत्यर्थः; अथवाऽन्तरीयं यत् शय्यायामधस्तनं वस्त्रमास्तीर्यते, उत्तरीयं पुनर्यत् तदुपरि प्रस्तीर्यते । तस्मिन्नन्तरीयोत्तरीयवस्त्रयुगले 'अन्यस्मिन्' अभिनवे "नियत्थ"त्ति निबसिते परिहिते प्रावृते वेत्यर्थः । द्वितीयव्याख्यानापेक्षया शय्याया उपरि "अत्युरिइ"ति आस्तीर्णे 'इतरत्' पुराणमन्तरीयोत्तरीययुगलम् 'अपनयन्' स्थापयितुमना इत्यत्रान्तरा यद् मार्यते तदन्तरावस्त्रमिति तृतीया प्रतिमा ॥ ६१० ॥ १ इत्येव अन्त° मो० ॥ २ 'उद्दिष्टं' प्राग्निरूपितशब्दार्थम् , जघन्य भा० ॥ ३ एकतरमदृष्टमेव याच्य° भा० ॥ ४ दृश्यते ईदृशेनैव ममापि प्रयोजनम् , यद्यस्ति भवतामेपणीयं तत ईदृशं प्रयच्छ भा० ॥ ५ स्त्रम् । भाविता द्विती° भा० ॥ ६ प्रच्छादनपटी मो० ॥ ७°नम् । व्याख्याता तृती° भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296