________________
भाष्यगाथाः ५९३-६००] पीठिका ।
१७३ यतिभ्यः किल दत्तत्वात् । ततो वर्ण्यत इति वा भवति सा पूर्वकृतेति ॥ ५९७ ॥
पासंडकारणा खलु, आरंभो अभिणवो महावजा ।
समणट्ठा सावजा, महसावजा उ साहूणं ॥ ५९८ ॥ यत्र बहूनां श्रमण-ब्राह्मणप्रभृतीनां पाषण्डानां कारणात्-कारणेन खल्वारम्भोऽभिनवः क्रियते सा महावा । 'श्रमणार्थी' पञ्चानां श्रमणानामर्थाय कृता सावद्या । या पुनरमीषा-5 मेव साधूनामर्थाय कृता सा महासावद्या ॥ ५९८ ॥
जा खलु जहुत्तदोसेहिँ वजिया कारिया सहाए ।
परिकम्मविप्पमुक्का, सा वसही अप्पकिरिया उ ॥ ५९९ ॥ या पुनः 'यथोक्तदोषैः' कालातिक्रान्तादिलक्षणैर्वर्जिता केवलं खस्य-आत्मनोऽर्थाय कारिता परिकर्मणा च विषमुक्ता सर्वस्यापि परिकर्मणः खत एवाग्रे प्रवर्तितत्वात् सा वस- 10 तिरल्पक्रिया वेदितव्या ।। ५९९ ॥ सम्प्रति यतनां दर्शयितुकाम इदमाह
हिडिल्ला उवरिल्लाहि बाहिया न उ लभंति पाहनं ।
पुन्वाणुनाभिणवं, च चउसु भय पच्छिमाभिणवा ॥ ६००॥ अधस्तन्य उपरितनीभिर्बाध्यन्ते, बाधिताश्च सत्यः 'न तु' नैव लभन्ते प्राधान्यम् । इयमत्र भावना-नवापि वसतयः क्रमेण स्थाप्यन्ते, तत्राप्यल्पक्रिया निर्दोषेति प्रथमम् । तद्यथा-15 अल्पक्रिया कालातिक्रान्ता उपस्थाना अभिक्रान्ता अनभिक्रान्ता वा महावा सावद्या महासावद्या च । अत्राधस्तनी अल्पक्रिया, अस्यां यद्यतिरिक्तं कालं तिष्ठति ततः सा कालातिक्रान्तया बाध्यते, सा कालातिक्रान्ता भवतीति भावः । कालातिक्रान्तामपि यदि प्रागभिहितखरूपां कालमर्यादां द्विगुणां द्विगुणामपरिहृत्योपागच्छन्ति ततः सा उपस्थानया बाध्यते, उपस्थाना सा भवतीति भावः । एवं यथासम्भवमुपयुज्य वक्तव्यम् । “पुवाणुन्न"ति आसां 20 च नवानां शय्यानां मध्ये पूर्वस्याः पूर्वस्याः अनुज्ञा वेदितव्या । किमुक्तं भवति ?-नवानां शय्यानां मध्ये या पूर्वा अल्पक्रिया सा तावत् प्रथममनुज्ञाता, लेशतोऽपि सावद्याभावात् । तस्या अभावे शेषाणां मध्ये कालातिक्रान्ता पूर्वा सा अनुज्ञाता, अल्पक्रियाया अलाभे सा आश्रयणीया इति भावः; तस्या अप्यलाभे शेषाणां पूर्वी उपस्थाना सा अनुज्ञाता; एवं या या पूर्वा सा सा अनुज्ञाता तावद् वक्तव्या यावत् सावद्या महासावद्यायाः पूर्वा सा अनुज्ञाता । 25 एवं पूर्वस्याः पूर्वस्या अलाभे उत्तरस्या उत्तरस्या अनुज्ञा वेदितव्या । "अभिणवं च चउसु भय"ति चतसृषु वसतिषु अभिनवेति दोषः सम्बध्यते अभिनवं दोषं 'भज' विकल्पय, कदाचिद् भवति कदाचिन्न भवतीति जानीहीत्यर्थः । अत्रापीयं भावना-अनभिक्रान्तायामपरिभुक्तेति कृत्वा चिरकृतायामप्यभिनवदोषो भवति, वादिषु पुनर्याः परिभुक्तास्तासु नाभिनवदोषः, एषा भजना । “पच्छिमाऽभिनव"त्ति पश्चिमो नाम महासावद्योपाश्रयः तस्मिन्नभिनवकृते वा 30 चिरकृते वा परिभुक्ते वा अपरिभुक्ते वा अभिनवदोषा भवन्ति, एकपक्षनिर्धारणात् । एतैर्मूलगुणादि(ग्रन्थानम्-४५००)दोषैर्यः परिहत्तुं जानाति स ग्रहणे कल्पिकः ॥ ६०० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org