________________
१७२
सनियुक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे [अनुयोगाधिकारः वजा य महावजा, सावज महऽप्पकिरिया य ॥ ५९३ ॥ शय्या नवप्रकारा भवन्ति, तद्यथा-कालातिक्रान्ता १ उपस्थाना २ अभिक्रान्ता ३ अनभिक्रान्ता ४ वा ५ महावा ६ सावद्या ७ महासावद्या ८ अल्पक्रिया ९ च ॥ ५९३ ॥ तत्र कालातिक्रान्तादिषु प्रायश्चित्तविधिमाह
कालातीते लहुगो, चउरो लहुगा य चउसु ठाणेसु ।
गुरुगा तिसु जमलपया, अप्पकिरियाए सुद्धो उ ॥ ५९४ ॥ ऋतुबद्धे काले कालातिक्रान्तं तिष्ठति मासलघु, वर्षाकाले चत्वारो लघवः । 'चतुर्यु स्थानेषु' उपस्थानायामभिक्रान्तायामनभिक्रान्तायां वायां चेत्यर्थः तिष्ठतः प्रत्येकं चत्वारो लघुकाः । तथा 'त्रिषु' स्थानेषु महावायां सावद्यायां महासावद्यायां चेत्यर्थः प्रत्येकं चत्वारो 10गुरवः, परं तपः-कालविशेषिताः । तद्यथा-महावायां चत्वारो गुरुकाः अतपोगुरवः, साव
चायां तपोगुरवः, महासावद्यायां तपसा कालेन च गुरवः । “जमलपया" इति तपःकालयोः संज्ञा, ततोऽयमर्थः-त्रिषु स्थानेषु गुरुकाः 'यमलपदाः' यमलपदवन्तस्तपः-कालवि. शेषिता द्रष्टव्याः । अल्पक्रियायां तु तिष्ठन् शुद्धः ॥ ५९४ ॥ साम्प्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानमभिधित्सुराह- उउ-वासा समतीता, कालातीया उ सा भवे सेजा।
सच्चेव उवट्ठाणा, दुगुणा दुगुणं अवजेत्ता ॥ ५९५॥ ऋतुबद्धे काले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्णे वर्षाकाले चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता वसतिः । “सच्चेव" इत्यादि । या कालमर्यादाऽनन्तरमुक्ता 'ऋतुबद्धे मासो वर्षासु चत्वारो मासाः' इति तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र 20 भूयः समागत्य तिष्ठन्ति सा उपस्थाना । किमुक्तं भवति ?-ऋतुबद्धे काले द्वौ मासौ वर्षा
खष्टमासान् अपरिहृत्य यदि पुनरागच्छति तस्यां वसतौ ततः सा उपस्थाना भवति, उपसामीप्येन स्थानम्-अवस्थानं यस्यां सा उपस्थानेति व्युत्पत्तेः। अन्ये पुनरिदमाचक्षतेयस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षाराचावन्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना न भवति अवाक् तिष्ठतां पुनरुपस्थापना ॥ ५९५॥
जावंतिया उ सेजा, अन्नेहिँ निसेविया अभिकता।
अनेहि अपरिभुत्ता, अनभिकंता उ पविसंते ॥ ५९६ ॥ या शय्या आचण्डालेभ्यो यावन्तिकी सा यदाऽन्यैश्चरकादिभिः पाषण्डस्थैर्गृहस्थैर्वा निषेविता पश्चात् संयतास्तिष्ठन्ति सा अभिक्रान्ता । सैव यावन्तिकी अन्यैः पाषण्डस्थैर्गृहस्थैर्वा अपरिभुक्ता तस्यां यदि संयताः प्रविशन्ति ततः साऽनभिक्रान्ता ॥ ५९६ ॥
अत्तट्टकडं दाउं, जतीण अन्नं करेंति वज्जा उ ।
जम्हा तं पुवकयं, वजंति ततो भवे वजा ॥ ५९७ ॥ आत्मार्थकृतां वसतिं यतिभ्यो दत्त्वा पुनरन्यामात्मार्थ कुर्वन्ति यदि ततः सा यतिदत्ता वा भवति । कया व्युत्पत्त्या ? इत्यत आह-यस्मात् तां पूर्वकृतां वसतिं गृहस्था वर्जयन्ति,
28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org