________________
भाष्यगाथा: ५८५-९२] पीठिका ।
१७१ आदिशब्दादन्यस्त्री-पुरुषगृहस्थैः ‘संसक्ता' सम्मिश्रा । तथा प्रत्यपाययति-प्रत्यपाये पातयतीति प्रत्यपाया ब्रह्मवतादीनां दर्शनस्य-सम्यक्त्वस्य विराधिका, यत्र ब्रह्मवतादीनां विराधनोपजायते सा सप्रत्यवाया शय्या इत्यर्थः ॥ ५८८ ॥ अत्रोभयत्रापि प्रायश्चित्तविधिमाह
काएसु उ संसत्ते, सचित्त-मीसेसु होइ सट्ठाणं ।।
सागारियसंसत्ते, लहुगा गुरुगा य जे जत्थ ॥ ५८९ ॥ 'कायैः' पृथिवीकायादिभिः सचित्तैर्मित्रैश्च संसक्ते उपाश्रये तिष्ठतः प्रायश्चित्तं 'स्वस्थानं' स्वस्थाननिष्पन्नं भवति । तद्यथा-सचित्तैः पृथिवीकायादिभिः संसक्ते चतुलघु, हरितैरनन्तैश्चतुर्गुरु, प्रत्येकबीजै रात्रिन्दिवपञ्चकं लघु, अनन्तबीजैर्गुरुकम् , मित्रैः पृथिव्यादिभिर्मासलघु, हरितैरनन्तैर्मित्रैर्मासगुरु, बीजैः प्रत्येकैरनन्तैश्च मित्रैः सचिवैरिव, त्रसकायैश्चत्वारो गुरुकाः । "सागारिय" इत्यादि पश्चिमार्द्धम् । निर्ग्रन्थानां पुरुषसंसक्ते उपाश्रये तिष्ठतां चत्वारो लघुकाः, 10 स्त्रीसंसक्ते चत्वारो गुरुकाः । निर्ग्रन्थीनां स्त्रीभिः संसक्ते चतुर्लघु, पुरुषसंसक्ते चतुर्गुरु । ये च यत्राऽऽज्ञाभङ्गादयो दोषास्ते च तत्र सप्रायश्चित्ता वक्तव्याः ।। ५८९ ।।
गुरुगा बंभावाए, आयाए चेव दंसणे लहुगा।। ___ आणादिणो विराहण, भवंति एकेकगपयाओ ॥ ५९० ॥ 'ब्रह्मापाये' ब्रह्मप्रत्यवाये 'आत्मनि चैव' आत्मप्रत्यपाये 'गुरुकाः' चत्वारो गुरवः । 'दर्शने' 10 दर्शनप्रत्यपाये चत्वारो लघवः । 'आज्ञादयश्च' आज्ञाभङ्गादयो विराधना एकैकपदाद् भवन्ति ज्ञातव्याः, द्विविधकरणोपघातादिषु सर्वेष्वपि पदेषु यथायोगमाज्ञाभङ्गादयो विराधनाः सप्रायश्चित्ता योजनीया इत्यर्थः ॥ ५९० ॥ अथ के ब्रह्मप्रत्यवाया आत्मप्रत्यवाया दर्शनप्रत्यवाया वा ? तत आह
तिरिय-मणुइत्थियातो, बंभावातो उ तिविह पडिमातो। 20 अहिबिल-चलंतकुड्डादि एवमादी उ आयाए ।। ५९१॥ आगाढमिच्छदिट्ठी, सव्वातिहि मरुग बहुजणट्ठाणा ।
पासंडा य बहुविहा, एसा खलु दंसणावाया ॥ ५९२ ॥ यत्र तिर्यस्त्रियो मनुष्यस्त्रियो वा यदि वा यत्र 'त्रिविधाः प्रतिमाः' तिर्यस्त्रीप्रतिमा मनुष्यस्त्रीप्रतिमा देवस्त्रीप्रतिमा वा सा 'ब्रह्मापाया' ब्रह्मपत्यपाया, तस्यां स्थितानां 25 ब्रह्मवतविनाशसम्भवात् । यत्र पुनरहिबिलानि चलन्ति-चलानि कुड्यानि आदिशब्दाञ्चलवेलीधारणादिपरिग्रहः, एवमादिका 'आत्मनि' आत्मप्रत्यवाया ॥ ५९१ ॥
तथा यत्राऽऽगाढमिथ्यादृष्टिः, यत्र च सर्वेऽतिथयः समागच्छन्ति सत्रमित्यर्थः, यत्र 'मरुकाः' बटुकास्तिष्ठन्ति चट्टशाला इति भावः, यच्च बहूनामागन्तुकानां जनानां स्थानं देशिककुटीत्यर्थः, यत्र च बहुविधाः पाषण्डाः, एषा एवंरूपा बसतिः खलु दर्शनापाया' 50 दर्शनप्रत्यपाया ॥ ५९२ ॥ सम्प्रति शय्याविधिद्वारमाह
कालातिकतोवट्ठाण अभिकंत अणमिकंताय ।
१लघवः भा०॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org