________________
१७०
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः ... 'दूमिया' नाम सुकुमारलेपेन सुकुमारीकृतकुड्या सेटिकया धवलीकृतकुड्या च, धूपिता अगुरुप्रभृतिभिः, वासिता पटवास-कुसुमादिभिः, 'उक्ष्योतिता' अन्धकारेऽग्निकायेन कृतो. क्ष्योता, 'बलिकृता' यत्र संयतनिमित्तं बलिविधानं कृतम् , 'अवात्ता' नाम यत्र भूमिरुपलिप्ता, सिक्ता आवर्षणकरणतः, सम्मृष्टा सम्मार्जन्या संयतनिमित्तम् । एवमुत्तरगुणैः कृता वसतिर्वि6 शोधिकोटिर्भवति ॥ ५८४ ॥ अत्रैव प्रायश्चित्तविधिमाह
अप्फासुएण देसे, सव्वे वा दृमियादि चउलहुगा । अफासु धूमजोती, देसम्मि वि चउलहू होंति ॥ ५८५ ॥ सेसेसु फासुएणं, देसे लहु सव्वहिं भवे लहुगा। .
सम्मजण साह-कुसादि छिन्नमत्तं तु सचित्तं ॥ ५८६ ॥ 10. यत्र देशतः सर्वतो वा अपाशुकेन दूमितादि आदिशब्दात् समस्तान्यपि पदानि गृही.
तानि तत्र तिष्ठतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । यत्र पुनरगुरुप्रभृतिभिबूंपनमन्धकारेऽमिकायेनोक्ष्योतनं तत्र नियमादप्राशुकः-सचित्तोऽमिकाय इति देशेऽपि चत्वारो लघुकाः किमुत सर्वतः ? ॥ ५८५॥
'शेषेषु' धूपितमुक्ष्योतितं च मुक्त्वा अन्येषु दूमित-वासित-बलिकृता-ऽवात्त-सिक्त16 सम्मृष्टरूपेषु भेदेषु प्राशुकेन देशतः करणे मासलधु, सर्वतश्चत्वारो लघवः । तथा यद मायते तत्र सचित्तं शाखा-कुशादि च्छिन्नमात्रं तद् यदि देशतः सर्वतो वा सम्मायने तदा चतुर्लघु ।। ५८६ ॥
मूलुत्तरचउभंगो, पढमे बीए य गुरुग सविसेसा ।
तइयम्मि होइ भयणा, अत्तट्ठकडो चरम सुद्धो ॥ ५८७ ॥ 20. मूलगुणाः पृष्ठवंशादयः उत्तरगुणा वंशकादयः तेषु मूलोत्तरगुणेषु चतुर्भङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । मूलगुणा अपि पृष्ठवंशादयः संयतनिमित्तमुत्तरगुणा अप्यविशोधिकोटिगता वंशकादयः संयतनिमित्तमिति प्रथमो भङ्गः, अत्र प्रायश्चित्तं चत्वारो गुरुका द्वाभ्यां गुरवः, तद्यथा-तपसा कालेन च । मूलगुणाः संयतार्थमुत्तरगुणा अविशोधिकोटिगताः खार्थमिति द्वितीयः, अत्र चत्वारो गुरुकास्तपोगुरवः काललघुकाः । “तइयम्मि होति भयण"त्ति 25 मूलगुणाः खार्थमुत्तरगुणाः संयतार्थमिति तृतीयो भङ्गस्तस्मिन् भजना । सा चेयम्-येऽत्रोत्तरगुणास्ते यद्यविशोधिकोटिगतास्तदा चतुर्गुरवस्तपोलघवः कालगुरवः, अथ विशोधिकोटिगतास्ते ततोऽप्राशुकेन देशे सर्वस्मिन् वा परिकर्मणि चत्वारो लघवः, प्राशुकेन देशतो मासलघु, सर्वतश्चत्वारो लघुकाः । आत्मार्थ मूलगुणा आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थक
तश्वरमभङ्गः शुद्धः ॥ ५८७ ॥ 30 तदेवं द्विविधकरणोपघातेति द्वारं व्याख्यातम् । अधुना संसक्तद्वारमाह
पुढवि दग अगणि हरियग, तसपाण सागारियादि संसत्ता ।
बंभवयआदि-दसणविराहिगा पचवाया उ॥ ५८८॥ पृथिव्या उदकेनामिना हरितकेन त्रसपाणैः 'सागारिकादिभिश्च' सागारिकः-शय्यातरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org