________________
भाष्यगाथाः ५७६-८४] पीठिका।
१६९ भेदः प्रकार इत्यनान्तरम् , शय्याया विधिर्वक्ष्यमाणा (गा० ५९३) नव शय्याया भेदाः । एतैर्मूलकरणादिदोषैर्यः सम्यक् परिहत्तुं जानाति स शय्याग्रहणे कल्पिको भवति ॥ ५८०॥ अथ कतिविधं मूलकरणमुत्तरकरणं वा शोधनीयम् ? अत आह
सत्तेव य मूलगुणे, सोही सत्तेव उत्तरगुणेसु ।
संसत्तम्मि य छकं, लहु-गुरु-लहुगा चरम जाव ॥ ५८१॥ 'सप्तैव' सप्तप्रकारैव शोधिमूलगुणेषु, गाथायामेकवचनमार्षत्वात् , 'सप्तैव' सप्तप्रकारैवोतरगुणेषु शोधिः । किमुक्तं भवति ?-मूलकरणं सप्तभेदं शोधनीयं वसतेः साधुभिः, उत्तरकरणमपि सप्तविधमिति । तथा संसक्ते उपाश्रये 'षट्कं' पृथिव्यप्तेजो-वनस्पति-त्रसकाय-सागारिकलक्षणं शोधनीयम् । किमुक्तं भवति ? यथोक्तरूपेण षट्केन संसक्तायामपि न स्थातव्यम् । यदि तिष्ठति ततो लघु-गुरु-लघुका यावत् 'चरमं पाराश्चितं तावत् प्रायश्चित्तम् । तद्यथा-पृथि-10 व्यादिभिः कायैः संसक्तायां तिष्ठन्ति (तिष्ठति) चत्वारो लघुकाः, हरितैरनन्तैश्चत्वारो गुरुकाः, प्रत्येकवीजैः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तबीजैस्तान्येव गुरुकाणि, मित्रैः पृथिव्यादिभिर्मासलघु, मित्रैरनन्तैर्मासगुरु, बीजैः प्रत्येकैरनन्तैश्च मित्रैः सचित्तैरिव, सैः संसक्तायां चतुर्गुरु, एवं तिष्ठतः प्रायश्चित्तम् । अथ तिष्ठन् पृथिवीकायादिसङ्घटनादि करोति तदा लघुक-गुरुकादि प्रायश्चित्तम् “छक्काय चउसु लहुगा" इत्यादि(४६१)गाथया प्रागुक्तप्रकारेणाभि-15 हितं तावदवसेयं यावच्चरमं पाराञ्चितमिति ॥ ५८१ ।। "सप्तविधं मूलकरणं शोधनीयम्" इत्युक्तम् अतः सप्त मूलभेदानाह
पट्टीवंसो दो धारणाउ चत्तारि मूलवेलीतो।
मूलगुणेहिँ उवहया, जा सा आहाकडा वसही ॥ ५८२ ॥ उपरितनस्तिर्यक्पाती पृष्ठवंशः, द्वौ मूलधारणौ ययोरुपरि पृष्ठवंशस्तिर्यग् निपात्यते, चतस्रश्च 20 मूलवेलय उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् । एते वसतेः सप्त मूलभेदाः । एतैर्मूलगुणैः सप्तभिरुपहता या वसतिः सा आधाकृता भवति । साधून आधाय-सम्प्रधार्य कृता आधाकृता, पृषोदरादित्वादिष्टरूपनिष्पत्तिः ॥ ५८२ ॥ उत्तरकरणं पुनरिदं सप्तविधम्
वंसग कडणोकंचण, छावण लेवण दुवार भूमी य ।
सप्परिकम्मा वसही, एसा मूलोत्तरगुणेसु ॥ ५८३ ॥ वंशका ये वेलीनामुपरि स्थाप्यन्ते, पृष्ठवंशस्योपरि तिर्यक् 'कटनं' कटादिभिः समन्ततः पार्थानामाच्छादनम् , 'उत्कञ्चनम्' उपरि कम्बिकानां बन्धनम् , 'छादनं' दर्भादिभिराच्छादनम् , 'लेपन' कुड्यानां कर्दमेन गोमयेन च लेपप्रदानम् , “दुवार" त्ति संयतनिमित्तमन्यतो वसतेीरकरणम् , "भूमि" ति समभूमिकरणम् । एतत् सप्तविधमुत्तरकरणम् । एषा सपरिकर्मा वसतिर्मूलगुणैरुत्तरगुणैश्च । एषा नियमेनाविशोधिकोटिः । अन्येऽपि चोत्तरगुणा वसतेर्वि-30 द्यन्ते तैः कृता विशोधिकोटिः ॥ ५८३ ॥ के तेऽन्ये उत्तरगुणाः ? इत्यत आह
दूमिय धूविय वासिय, उजोविय बलिकडा अवत्ता य । सित्ता सम्मट्ठा वि य, विसोहिकोडी कया वसही ।। ५८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org