________________
10
१६८
25
सनिर्युक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे
मालव-स्तेनेषु यतनामाह
असरीरतेणभंगे, पवलाए जणे उ जं तरति नेउं ।
न विधूमो न वि बोलो, न वति जणो कइयवेसुं ॥ ५७६ ॥ 'अशरीरस्तेनभङ्गे' ये शरीरं नापहरन्ति तैः स्तनैर्भङ्गे - प्रपलायमाने जने यद् नेतुं शक्नोति 5 तद् नयति । यदि पुनः कैतवेन केचन ब्रुवते 'अग्निः समुच्छलितः स्तेना वा द्विविधाः समापतिताः' तदा ते वक्तव्याः न वै धूमो दृश्यते " न वि बोलो" ति नापि जनस्य प्रपलायमानस्य बोलः तस्मान्न द्रवति जनो विदग्धः कैतवेष्विति ॥ ५७६ ॥ खज्ञातिद्वारे यतनामाहअन्नकुल- गोत्तकहणं, पत्तेसु वि भीयपरिस पेलेइ ।
पुव्वं अभीयपरिसे, भणाति लजाऍ न भणामि ॥ ५७७ ॥ जाताच ठवेमि वए, पत्ते कुड्डादिछेय संगारो ।
30
―――――
मा सिं हीरे उवहिं, अच्छह जा सिं निवेएमि ॥ ५७८ ॥
यदि केचन वज्ञातय आगता वर्तन्ते न च ते तं प्रत्यभिजानते तदा 'अन्यकुल- गोत्रकथनं' कर्त्तव्यम् अन्यत् कुलमन्यच्च गोत्रमात्मनः कथयति । अथ ते सम्यग् ज्ञातारः समागता - स्तत्र यदि ते भीतपर्षदस्तदा तान् प्रेरयति - ईदृशास्तादृशा यूयम्, बन्धयामि युष्मान् राजकु15 लेनेति । अथैवमुक्तास्ते न बिभ्यति तर्हि तान् अभीतपर्षदो वक्ति- ममाप्येतदभिप्रेतमुन्निष्कमणं परं लज्जया न भणामि युष्मान्, यथा - अहमुन्निष्क्रमामीति, न वा शक्नोमि लज्जया युष्माकं समीपमागन्तुम्, तद् भव्यं कृतं यद् यूयमागताः किन्तु तिष्ठत क्षणमात्रं यावदागच्छन्ति साधवः, ततस्तेषां समीपे व्रतानि निक्षिपामि; मा वा तेषां भट्टारकाणामुपकरणं शून्ये उपाश्रये केनापि हियेत, यावच्च तेषां निवेदयामि यथा - ' अहं गमिष्यामि' इति तावत् तिष्ठत । 20. एतावतोपायेन तावत् तिष्ठति यावत् साधवः प्राप्ता भवन्ति, तत उपाश्रयकुड्यस्य च्छिद्रं पातयित्वा नश्यति सङ्केतं च करोति - अमुकस्थाने मां गवेषयत, आगत्य वा मम मिलितव्यमिति ॥ ५७७ ॥ ५७८ ॥
[ अनुयोगाधिकारः
धारादी नाउं इयरे वि तर्हि दुयं समभियंति ।
अपाई तेसिं, अगं कर्ज दुयं एह ॥ ५७९ ॥
'इतरेऽपि' भिक्षार्थमदन्तः साधवः स्कन्धावारमग्नि- मालव- स्तेनपतनं वा ज्ञात्वा 'द्रुतं' सत्वरं ‘समभियन्ति' समागच्छन्ति । स वा वसतिपालो भिक्षार्थं गतानां सन्देशं कथयति, यथाअमुकं कार्यमापतितमिति द्रुतमागच्छत || ५७९ ॥ गतं रक्षणद्वारम् । इदानीं ग्रहणकल्पिकमाह
Jain Education International
दुविकरणोवघाया, संसत्ता पच्चत्राय सिजविही ।
जो जाणति परिहरि, सो गहणे कप्पितो होति ॥ ५८० ॥ वसतेर्द्विविधं करणम्-मूलकरणमुत्तरकरणं च तेन द्विविधेन करणेनोपघातो यस्याः सा द्विविधकरणोपघाता, मूलकरणोपहता उत्तरकरणोपहता चेत्यर्थः । तथा पृथिव्युदक- तेजो- हरितत्रसप्राण-सागारिकसंयुक्ता संसक्ता । ब्रह्मत्रतादिविराधनाकारिणी प्रत्यवाया । तथा विधिर्विधानं
For Private & Personal Use Only
www.jainelibrary.org