SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १७४ 10 सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः कथं पुनर्जानाति परिहर्तुम् ? इति चेद् अत आह उग्गम-उप्पायण-एसणाहिँ सुद्धं गवेसए वसहि । तिविहं तीहिं विसुद्धं, परिहर नवगेण मेदेणं ॥ ६०१॥ उद्गमेनोत्पादनया एषणया शुद्धां वसतिं गवेषयति । तत्र त्रयाणां पदानामष्टौ भङ्गाः। तेषु 5च उपरितनेषु सप्तसु भङ्गेष्वशुद्धां परिहर्तुं यो जानाति स ग्रहणे कल्पिकः । कथम्भूतां वसतिमुद्गमादिशुद्धां गवेषयति ? इत्यत आह-'त्रिविधां' खातादिभेदतस्त्रिप्रकारां तथा 'त्रिभिः' मनसा वाचा कायेन च विशुद्धां गवेषयति । तथा खातादीस्तिस्रोऽपि वसतीरुद्माद्यशुद्धा नवकेन भेदेन परिहरति । तद्यथा-मनसा न गृह्णाति नापि ग्राहयति नापि गृह्णन्तमनुजानीते, एवं वाचा कायेन च वक्तव्यमिति ॥ ६०१॥ पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति । आलोयणमायरिये, आयरिओ विसोहिकारो से ॥६०२ ॥ अस्या व्याख्या प्राग्वत् (गाथा ५३०) ॥ ६०२॥ उक्तः शय्याकल्पिकः । सम्प्रति वस्त्रकल्पिकमभिधित्सुराह नाम ठवणा वत्थं, दवे भावे य होइ नायव्वं । एसो खलु वत्थस्स उ, निक्खेवो चउबिहो होइ ॥६०३॥ वस्त्रं खलु चतुर्विधम् । तद्यथा-नामवस्त्रं स्थापनावस्त्रं द्रव्यवस्वं भाववस्त्रं च । एष खलु वस्त्रस्य निक्षेपश्चतुर्विधो भवति ॥ ६०३ ॥ तत्र नाम-स्थापने प्रतीते, द्रव्यवस्त्रमाह दव्वे तिविहं एगिदि-विगल-पंचेंदिएहिँ निप्फनं । सीलंगाइँ भावे, देव्वे पगयं तदट्ठाए ॥६०४॥ 20 द्रव्यवस्त्रं त्रिविधम् । तद्यथा-एकेन्द्रियनिष्पन्नं विकलेन्द्रियनिष्पन्नं पञ्चेन्द्रियनिष्पन्नं च । तत्रैकेन्द्रियनिष्पन्न कार्पासिकादि, विकलेन्द्रियनिष्पन्नं कौशेयकादि, पञ्चेन्द्रियनिष्पन्नमौर्णिकौष्ट्रिकादि । 'भावे' भाववस्त्रमष्टादश शीलाङ्गसहस्राणि । अथ कान्यष्टादश शीलाङ्गसहस्राणि ? इति चेद् उच्यतेअष्टादश शीला ___करणे जोगे सण्णा, इंदिय भोमादि समणधम्मे य । सहस्राणि 35 सीलंगसहस्साणं, एताउ भवे समुप्पत्ती ॥ अस्या अक्षरगमनिका-करणं त्रिविधम् , तद्यथा-करणं कारापणमनुमोदनं च । त्रिविधो योगः-मनोयोगो वाग्योगः काययोगश्च । संज्ञाश्चतस्रः, तद्यथा-आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा च । इन्द्रियाणि पञ्च, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं प्राणेन्द्रियं जिहेन्द्रियं स्पर्शनेन्द्रियं च । 'भोमादि'त्ति भौमः पृथिवीकायविषयः समारम्भः, आदिशब्दा30 दप्कायसमारम्भस्तेजःकायसमारम्भो वायुकायसमारम्भो वनस्पतिकायसमारम्भो द्वीन्द्रियसमारम्भस्त्रीन्द्रियसमारम्भश्चतुरिन्द्रियसमारम्भः पञ्चेन्द्रियसमारम्भोऽजीवकायसमारम्भश्च । श्रम१ वत्थस्सा नि° ता० ॥ २ दविए पगतं ता• ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy