________________
भाष्यगाथाः ६०१-६०६ ]
पीठिका |
१७५
धर्मोऽपि दशधा - क्षान्तिर्मार्दवमार्जवमलोभता तपः सत्यं संयमस्त्यागोऽकिञ्चनता ब्रह्मचर्यं च । एतैः स्थानैरष्टादशानां शीलाङ्गसहस्राणामुत्पत्तिः ॥ तद्यथा
न करेइ सयं साहू, मणसा आहारसन्नउवउत्तो | सोइ दियसंवरण, पुढ विजिए खंतिसंपन्नो ||
न करेइ सयं साहू, मणसा आहारसन्न उवउत्तो । सोइं दियसंवरणो, पुढविजिए मद्दवपवन्नो ||
एवं तावद् वक्तव्यं यावद्दशम्यां गाथायां “बंभचेरगए" इति । एते दश भङ्गाः पृथिवी - कायसमारम्भपरिहारेण लब्धाः, एवमप्कायादिपरिहारेणापि प्रत्येकं दश दश लभ्यन्ते इति सर्वसङ्कलनया जातं शतम् । एतच्च श्रोत्रेन्द्रियेण लब्धम् एवं शेषैरपीन्द्रियैः प्रत्येकं शतं शतं लभ्यते इति जातानि पञ्च शतानि । एतानि चाहारसंज्ञोपयुक्तेन लब्धानि एवं शेषाभिरपि 10 संज्ञाभिः प्रत्येकं पञ्च शतानीति सर्वसङ्ख्यया जाते द्वे सहस्रे । एते च ' न करोति' इत्यनेन पदेन लब्धे, एवं " न कारवेइ" इत्यनेन "नो अणुमन्नइ" इत्यनेन च प्रत्येकं लभ्य ( ये ) ते इति सर्वमीलने जातानि षट् सहस्राणि । [ ए ] तानि लब्धानि मनोयोगेन, एवं वाग्योगेन काययोगेनापीति सर्वसङ्ख्यया जातान्यष्टादश सहस्राणि ॥
एतैरष्टादशभिः शीलाङ्गसहसैर्नित्यप्रावृता साधवोऽवतिष्ठन्ते तत एतानि भाववस्त्रम् | 15 “दब्बे पगय”मित्यादि । अत्र द्रव्यवस्त्रेणाधिकारः, यतस्तद् द्रव्यवस्त्रं ' तदर्थाय' भाववस्त्राय भवति, भाववस्त्रस्योपग्रहं करोतीत्यर्थः । ततः प्रकृतमत्र द्रव्यवस्त्रेण || ६०४ ॥
रवि दव्वे तिविहं, जहण्णगं मज्झिमं च उक्कोसं ।
एकं तत्थ तिहा, अहाकड - sप्पं सपरिकम्मं ।। ६०५ ॥
Jain Education International
यद् द्रव्यवस्त्रमेकेन्द्रियादिनिष्पन्नतया त्रिविधमुक्तं तत् पुनरपि प्रत्येकं त्रिधा, तद्यथा - 20 जघन्यं मध्यममुत्कृष्टं च । तत्र कार्पासिकं जघन्यं मुखपोतिकादि, मध्यमं पटलकादि, उत्कृष्टं कल्पादि । एवं शेषे अपि कौशेयकादिके यथायोगं भावनीये । एतेषामेकैकं 'त्रिधा त्रिप्रकारम्, तद्यथा-यथाकृतमल्पपरिकर्म सपरिकर्म च ॥ ६०५ ॥
एषामुत्पादने यथोक्तविध्यकरणे प्रायश्चित्तमाह
-
5
चाउम्मासुकोसे, मासिय मज्झे य पंच य जहने । वोच्चत्थगहण करणे, तत्थ वि सट्टाणपच्छित्तं ।। ६०६ ॥
'उत्कृष्टे' उत्कृष्टवस्त्रविषये विपर्यस्त ग्रहणे - विपर्यासेन ग्रहणे प्रायश्चितं चतुर्मासम्, मध्यमे मासिकम्, जघन्ये पञ्च रात्रिन्दिवानि । इयमत्र भावना - उत्कृष्टस्य यथाकृतस्य वस्त्रस्योत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यद्यल्पपरिकर्मोत्कृष्टं गृह्णाति तदा तस्य प्रायश्चित्तं चतुर्लघु, यदा किल यथाकृतं योगे कृतेऽपि न लभ्यते तदाऽल्पपरिकर्म ग्रहीतव्यम् नान्यदा, 30 अत्र तु विपर्यय इत्युक्तरूपं प्रायश्चित्तम् । अथोत्कृष्टमेव सपरिकर्म गृह्णाति तदाऽपि चतुर्लघु । अथ यथाकृतमुत्कृष्टं वस्त्रं कृतेऽपि योगे न लब्धं तत उत्कृष्टस्याल्पपरिकर्मणो मार्गणं कर्त
For Private & Personal Use Only
25
www.jainelibrary.org