________________
१७६
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः व्यमेव । तत्करणाय निर्गतस्तस्य योगमकृत्वा सपरिकर्मोत्कृष्टं वस्त्रमाददानस्य चतुर्लघु । एवमुत्कृष्टविषये त्रीणि चतुर्लघुकानि । तथा मध्यमस्य यथाकृतस्य वस्त्रस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्म मध्यमं गृह्णाति मासलघु । अथ सपरिकर्म मध्यमं गृह्णाति तदाऽपि मासलघु । “यदा यथाकृतं न लभ्यते तदाऽल्पपरिकर्म मध्यमं याचनीयम्" इति वचनतो यथा6कृतस्य योगे कृतेऽप्यलाभेऽल्पपरिकर्मण उत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यदि सपरिकर्म मध्यमं गृहाति तदाऽपि मासलघु । एवं मध्यम विषये त्रीणि मासिकानि । तथा जघन्यस्य यथाकृतस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्म जघन्यं गृहाति तदा रात्रिन्दिवपञ्चकम् । अथ सपरिकर्म जघन्यमाददाति तदाऽपि पञ्चकम् । यदा तु योगे कृतेऽपि यथा
कृतं न लभ्यते तदाऽल्पपरिकर्म मार्गयितव्यमिति तस्योत्पादनाय निर्गतस्तद्विषये योगम10 कृत्वा सपरिकर्म गृह्णानस्य पञ्चकम् । एवं जघन्यविषये त्रीणि पञ्चकानि । एतच्च प्रायश्चित्तमधिकृतविषये योगाकरणे । योगे तु कृते लाभाभावतस्तथाग्रहणेऽपि दोषाभावः । तथाहियथाकृतस्य निर्गतः तच्च योगे कृतेऽपि न लब्धं ततोऽल्पपरिकर्मापि गृह्णानः शुद्धः । अल्पपरिकर्मणो वा निर्गतस्तद्योगे कृतेऽप्यलभमानः सपरिकर्म गृहन् शुद्धः । न केवलमेतद् विपर्यस्तग्रहणे प्रायश्चित्तं किन्तूत्कृष्टादिविपर्यस्तग्रहणे खस्थानमपि । तद्यथा-उत्कृष्टस्योत्पा16 दनाय निर्गतो मध्यमं गृह्णाति मासिकम् , जघन्यं गृह्णाति रात्रिन्दिवपञ्चकम् ; मध्यमस्य निर्गत उत्कृष्टं गृहाति चतुर्लधु, जघन्यं गृह्णाति पञ्चकम् ; जघन्यस्य निर्गत उत्कृष्टं गृहाति चतुर्लघु, मध्यमं गृहाति मासलघु; सर्वत्र चाऽऽज्ञादयो दोषाः । तदेवं ग्रहणे प्रायश्चित्तखस्थानमुक्तम् । एवं 'करणेऽपि' उत्कृष्टादिकरणेऽपि खस्थानप्रायश्चित्तमवसातव्यम् । तद्यथा-उत्कृष्टं वस्त्रं छित्त्वा सीवित्वा च मध्यमकं करोति मासलघु, जघन्यं करोति रात्रिन्दिवपञ्चकम् ; मध्यम 20 छित्त्वा सीवित्वा वा उत्कृष्टं करोति चतुर्लघु, जघन्यं करोति रात्रिन्दिवपञ्चकम् ; जघन्य छित्त्वा सीवित्वा वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासिकम् । यत एवं स्वस्थानप्रायश्चित्तं ततो विपर्यस्तग्रहण-करणे न विधेये ॥ ६०६ ॥ ग्रन्थाग्रम्-४६०० ॥
[॥ एतदन्तं पीठिकावृत्तिः श्रीमलयगिरिचरणैः सूत्रितेति भद्रम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org