SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ आचार्यश्रीक्षेमकीर्तिसूरिभिरनुसन्धिता पीठिकावृत्तिः। ॥ ॐनमः सर्वज्ञाय ॥ नतमघवमौलिमण्डलमणिमुकुटमयूखधौतपदकमलम् । सर्वज्ञममृतवाचं, श्रीवीरं नौमि जिनराजम् ॥ १ ॥ चरमचतुर्दशपूर्वी, कृतपूर्वी कल्पनामकाध्ययनम् । सुविहिनहितैकरसिको, जयति श्रीभद्रबाहुगुरुः ॥ २ ॥ कल्पेऽनल्पमनध्यं प्रतिपदमर्पयति योऽर्थनिकुरुम्बम् । श्रीसङ्घदासगणये, चिन्तामणये नमस्तस्मै ॥ ३ ॥ शिवपदपुरपथकल्पं, कल्पं विषममपि दुःषमारात्रौ । सुगमीकरोति यच्चर्णिदीपिका स जयति यतीन्द्रः ॥ ४ ॥ आगमदुर्गमपदसंशयादितापो विलीयते विदुषाम् । यद्वचनचन्दनरसैमलयगिरिः स जयति यथार्थः ॥ ५॥ श्रुतलोचनमुपनीय, व्यपनीय ममापि जडिमजन्मान्ध्यम् । यैरदर्शि शिवमार्गः, खगुरूनपि तानहं वन्दे ॥६॥ ऋजुपदपद्धतिरचनां, बालशिरःशेखरोऽप्यहं कुर्वे । यस्याः प्रसादवशतः, श्रुतदेवी साऽस्तु मे वरदा ॥ ७ ॥ श्रीमलयगिरिप्रभवो, यां कर्तुमुपाक्रमन्त मतिमन्तः । सा कल्पशास्त्रटीका, मयाऽनुसन्धीयतेऽल्पधिया ॥ ८ ॥ 20 इह श्रीमदआवश्यकादिसिद्धान्तप्रतिवद्धनियुक्तिशास्त्रसंसूत्रणसूत्रधारः परोपकारकरणैकदीक्षादीक्षितः सुगृहीतनामधेयः श्रीभद्रबाहुखामी सकर्णकर्णपुटपीयमानपीयूषायमान(ण)ललितपदकलितपेशलालापकं साधु-साध्वीगतकल्प्या-ऽकल्प्यपदार्थसार्थविधि-प्रतिषेधप्ररूपकं यथायोगमुत्सर्गा-ऽपवादपदपदवीसूत्रकवचनरचनागर्भ परस्परमनुस्यूताभिसम्बन्धवन्धुरपूर्वापरसू सन्दर्भ प्रत्याख्यानाख्यनवमपूर्वान्तर्गताऽऽचारनामकतृतीयवस्तुरहस्यनिष्यन्दकल्पं कल्प- 25 नामधेयमध्ययनं नियुक्तियुक्तं नियूंढवान् । अस्य च खल्पग्रन्थमहार्थतया प्रतिसमयमपसर्पदवसर्पिणीपरिणतिपरिहीयमानमति-मेधा-धारणादिगुणग्रामाणामैदंयुगीनसाधूनां दुरवबोधतया च सकलत्रिलोकीसुभगकरणक्षमाश्रमणनामधेयाभिधेयैः श्रीसङ्घन्दासगणिपूज्यैः प्रतिपदप्रकटितसर्वज्ञाज्ञाविराधनासमुद्भुतप्रभूतप्रत्यपायजालं निपुणचरण-करणपरिपालनोपायगोचरविचार १ नमः श्रीसर्वज्ञाय डे० ले० त० । ॐनमः श्रीसवैज्ञाय का० ॥२°पीयूषोपमान ले० ॥ ३°सूचकवचन भा०॥ बृ. २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy