SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 10 १७८ सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः वाचालं सर्वथादूषणकरणेनाप्यदूप्यं भाष्यं विरचयाञ्चके । इदमप्यतिगम्भीरतया मन्दमेधसांदुरवगममवगम्य यद्यप्यनुपकृतपरोपकृतिकृता चूर्णिकृता चूर्णिरासूत्रिता तथापि सा निबिडजडिमजम्बालजालजटालानामस्मादृशां जन्तूनां न तथाविधमवबोधनिबन्धनमुपजायत इति परिभाव्य शब्दानुशासनादिविश्वविद्यामयज्योतिःपुञ्जपरमाणुघटितमूर्तिभिः श्रीमलयगिरिमुनी5न्द्रषिपादैविवरणकरणमुपचक्रमे । तदपि कुतोऽपि हेतोरिदानी परिपूर्ण नावलोक्यत इति परिभाव्य मन्दमतिमौलिमणिनाऽपि मया गुरूपदेशं निश्रीकृत्य श्रीमलयगिरिविरचितविवरणादूर्द्ध विवरीतुमारभ्यते । कृतं विस्तरेण, प्रकृतं प्रस्तूयते___ इहायं कल्प-व्यवहारयोरनुयोगः प्रक्रान्तः । स च कतिभिीरैः प्ररूपणीयः ? इति स्वरूपनिरूपणायामनुयोगवक्तव्यताप्रतिबंद्धद्वारकलापसूचिका तावदियं मूलगाथा निक्खेवेगट्ट निरुत्ति विहि पवत्ती य केण वा कस्स । तदार भेय लक्खण, तयरिह परिसा य सुत्तत्थो ।। (गाथा १४९) अस्याश्च निक्षेपादीनि तदर्हपर्यन्तान्येकादश द्वाराणि व्याख्यातानि । सम्प्रति पर्षदिति द्वारमनुवर्तते । तत्र चेदं द्वारश्लोकयुगलम् बहुस्सुए चिरपदइए, कप्पिए अ अचंचले । अवट्ठिए अ मेहावी, अपरिस्साई अ जे विऊ ।। (गाथा ४००) पत्ते य अणुनाए, भावओ परिणामगे । एयारिसे महाभागे, अणुओगं सोउमरिहइ ।। (गाथा ४०१) अत्र च बहुश्रुत-चिरप्रव्रजिते द्वारे व्याख्याते, कल्पिकद्वारं व्याख्यायमानमस्ति । सोऽपि कल्पिको द्वादशविधः, तद्यथा सुत्ते अत्थे तदुभय, उवट्ट वीयार लेव पिंडे य । सिज्जा वत्थे पत्ते, उग्गहण विहारकप्पे य ॥ (गाथा ४०५) तत्र सूत्रकल्पिकादयः शय्याकल्पिकान्ता भाविताः । साम्प्रतं वस्त्रकल्पिको भाव्यते । तत्रापि गाथाचतुष्टयं श्रीमलयगिरिणैव व्याख्यातम्, इतः प्रभृति विवियते । तत्र यदुक्तमनन्तरगाथायां “वोच्चत्थगहण-करणे, तत्थ वि सट्टाणपच्छित्तं"ति तदेतद भावयति25 जोगमकाउमहागडे, जो गिण्हइ दोनि तेसु वा चरिमं । लहुगा उ तिनि मज्झम्मि मासिआ अंतिमे पंच ॥ ६०७॥ 'योग' व्यापारमुद्यममकृत्वा 'यथाकृते' यथाकृतवस्त्र विषयं यः साधुः 'द्वे' अल्पपरिकर्मसपरिकर्मणी गृह्णाति । तद्यथा-यथाकृतस्यार्थाय निर्गतस्तस्य योगमकृत्वा प्रथममेवाल्पपरिकर्म सपरिकर्म वा गृह्णाति । यथाकृतालाभे वा अल्पपरिकर्मणो योगमकृत्वा प्रथमत एव 30 'तयोः' अल्पपरिकर्म-सपरिकर्मणोर्मध्ये 'चरमम्' अन्त्यं सपरिकर्म गृह्णाति । तस्यैतेषु त्रिषु स्थानेषत्कृष्ट-मध्यम-जघन्यान्यधिकृत्य यथाक्रमं प्रायश्चित्तम् । तद्यथा-उत्कृष्टे त्रिषु स्थानकेषु १ मुनीन्द्रपादै मो० त० कां० ॥ २ °बद्धा तावदियं भा० ले. का० ॥ ३ अत्र डे० त० ॥ ४ तदेव भाव डे० त०॥ ५°गड जो ता० ॥ ६साधुः "दुन्नि" त्ति द्वे भा० ॥ 00 जागना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy