Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 213
________________ १७२ सनियुक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे [अनुयोगाधिकारः वजा य महावजा, सावज महऽप्पकिरिया य ॥ ५९३ ॥ शय्या नवप्रकारा भवन्ति, तद्यथा-कालातिक्रान्ता १ उपस्थाना २ अभिक्रान्ता ३ अनभिक्रान्ता ४ वा ५ महावा ६ सावद्या ७ महासावद्या ८ अल्पक्रिया ९ च ॥ ५९३ ॥ तत्र कालातिक्रान्तादिषु प्रायश्चित्तविधिमाह कालातीते लहुगो, चउरो लहुगा य चउसु ठाणेसु । गुरुगा तिसु जमलपया, अप्पकिरियाए सुद्धो उ ॥ ५९४ ॥ ऋतुबद्धे काले कालातिक्रान्तं तिष्ठति मासलघु, वर्षाकाले चत्वारो लघवः । 'चतुर्यु स्थानेषु' उपस्थानायामभिक्रान्तायामनभिक्रान्तायां वायां चेत्यर्थः तिष्ठतः प्रत्येकं चत्वारो लघुकाः । तथा 'त्रिषु' स्थानेषु महावायां सावद्यायां महासावद्यायां चेत्यर्थः प्रत्येकं चत्वारो 10गुरवः, परं तपः-कालविशेषिताः । तद्यथा-महावायां चत्वारो गुरुकाः अतपोगुरवः, साव चायां तपोगुरवः, महासावद्यायां तपसा कालेन च गुरवः । “जमलपया" इति तपःकालयोः संज्ञा, ततोऽयमर्थः-त्रिषु स्थानेषु गुरुकाः 'यमलपदाः' यमलपदवन्तस्तपः-कालवि. शेषिता द्रष्टव्याः । अल्पक्रियायां तु तिष्ठन् शुद्धः ॥ ५९४ ॥ साम्प्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानमभिधित्सुराह- उउ-वासा समतीता, कालातीया उ सा भवे सेजा। सच्चेव उवट्ठाणा, दुगुणा दुगुणं अवजेत्ता ॥ ५९५॥ ऋतुबद्धे काले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्णे वर्षाकाले चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता वसतिः । “सच्चेव" इत्यादि । या कालमर्यादाऽनन्तरमुक्ता 'ऋतुबद्धे मासो वर्षासु चत्वारो मासाः' इति तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र 20 भूयः समागत्य तिष्ठन्ति सा उपस्थाना । किमुक्तं भवति ?-ऋतुबद्धे काले द्वौ मासौ वर्षा खष्टमासान् अपरिहृत्य यदि पुनरागच्छति तस्यां वसतौ ततः सा उपस्थाना भवति, उपसामीप्येन स्थानम्-अवस्थानं यस्यां सा उपस्थानेति व्युत्पत्तेः। अन्ये पुनरिदमाचक्षतेयस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षाराचावन्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना न भवति अवाक् तिष्ठतां पुनरुपस्थापना ॥ ५९५॥ जावंतिया उ सेजा, अन्नेहिँ निसेविया अभिकता। अनेहि अपरिभुत्ता, अनभिकंता उ पविसंते ॥ ५९६ ॥ या शय्या आचण्डालेभ्यो यावन्तिकी सा यदाऽन्यैश्चरकादिभिः पाषण्डस्थैर्गृहस्थैर्वा निषेविता पश्चात् संयतास्तिष्ठन्ति सा अभिक्रान्ता । सैव यावन्तिकी अन्यैः पाषण्डस्थैर्गृहस्थैर्वा अपरिभुक्ता तस्यां यदि संयताः प्रविशन्ति ततः साऽनभिक्रान्ता ॥ ५९६ ॥ अत्तट्टकडं दाउं, जतीण अन्नं करेंति वज्जा उ । जम्हा तं पुवकयं, वजंति ततो भवे वजा ॥ ५९७ ॥ आत्मार्थकृतां वसतिं यतिभ्यो दत्त्वा पुनरन्यामात्मार्थ कुर्वन्ति यदि ततः सा यतिदत्ता वा भवति । कया व्युत्पत्त्या ? इत्यत आह-यस्मात् तां पूर्वकृतां वसतिं गृहस्था वर्जयन्ति, 28 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296