Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 201
________________ १६० सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः तर्हि तिष्ठत यूयं यदि गताः श्रमणाः । ते स्थिताः । आगताः साधवः प्रवेष्टुं प्रवृत्ता वसतौ बटुकैर्निवारिताः-माऽत्र प्रविशथ, वयमग्रे तिष्ठामः । ततः 'असङ्खडं' कलहः परस्परमुपजायते । बटुका ब्रुवते-वसतिरस्माकं खामिना दत्ता, किमत्र युष्माकम् ? । इतरेऽपि वदन्ति खामिनैवास्माकमपि वसतिरदायि । ततः साधवः शय्यातरसकाशं गच्छन्ति । स ब्रूते-यूयम। नापृच्छया शून्यं कृत्वा गताः, मया ज्ञातम्-गता यूयं येन शून्यीकृता दृश्यते वसतिः, अतो मया 'द्विजानां' बटुकानां दत्ता वसतिः 'इति' तस्मात् 'संवृत्येन' परस्परसश्चिन्त्या यूयं बटुकाश्चैकत्र स्थाने तिष्ठत, नाहमात्मानमलीकं करोमि । तत्र यदि संवृत्येन तिष्ठन्ति तत्र पठतां प्रतिलेखनां च कुर्वतां संयतभाषाभिश्च 'उड्डञ्चकान्' देशीपदमेतद् उपहासान् कुर्युः, ततः 'अधिकरणम्' असङ्खडम् । अथवा शय्यातरो भद्रकः ततस्तान् बटुकान् निष्काश. 10 येत्, तथा च सति 'अधिकरणं' संयतप्रयोगेण वयं निष्काशिताः तस्माद् ज्ञातव्यं संयतानाम् । अथवा 'निच्छूढाः' निष्काशिताः सन्त उभयेषामपि सागारिकस्य संयतानां चोपरि प्रद्वेष गच्छेयुः । ततस्ते एवं 'निक्षिप्ताः' निष्काशिताः सन्तः प्रद्विष्टाः स्तेनप्रयोगतोऽज्यादिप्रक्षेपतश्च 'उभयस्यापि' सागारिकस्य संयतानां च यद् अनर्थजातं करिष्यन्ति तदपि' तन्निप्पन्नमपि प्रायश्चित्तं 'ते' संयताः शून्यवसतिकारिण आपद्यन्ते ॥ ५४७ ॥ ५४८॥ ५१९॥ 18 गत बटुकद्वारम् । इदानी चारणद्वारं भटद्वारं चाह एमेव चारण भडे, चारण उड्डंचगा उ अहिगतरा । निच्छूढा व पदोस, तेणा-ऽगणिमाइ जह बडया ॥ ५५०॥ 'एवमेव' बटुकगतेनैव प्रकारेण चारणे भटे च दोषा वक्तव्याः । किमुक्तं भवति ?-ये वटुकेषु दोषा उक्तास्ते चारणे भटे च प्रत्येकमवसातव्याः । नवरं चारणा(णे) बटुकेभ्योऽधिक20 तराः, यतस्ते 'उदञ्चकाः' याचकाः । इयमत्र भावना-ते चारणाः प्रपञ्चबहुलाः, ततः संयतान् प्रपञ्चय तेभ्यो याचन्ते, ततस्तैः सहैकनिवासेऽधिकतरा दोषाः । तथा चारणा भटाश्च निष्काशिताः प्रद्वेषमापन्नाः स्तेनाम्यादिभिरुभयेषामप्यनर्थ कुर्युर्यथा बटुका इति ॥ ५५० ॥ इदानी तिर्यमरणद्वारं मनुष्यमरणद्वारमादेशद्वारं चाह छड्डुणि काउड्डाहा, घाणारिस सुत्तवन्न अच्छंते । 25 इति उभयमरणदोसा, आएस जहा बडुगमाई ॥ ५५१ ॥ शून्यां वसतिं दृष्ट्वा गवादिस्तिर्यङ् अनाथमनुप्यो वा प्रविश्य म्रियते तं यदि गृहस्थैरसं. यतैः परिष्ठापयन्ति तदा 'छर्दने' परिष्ठापने पण्णां कायानां पृथिव्यादीनां विराधना । अथाऽऽत्मना परिष्ठापयन्ति तदा प्रवचनस्योड्डाहः 'उचिता एतेऽस्य कर्मणः' इति । अथवा कोऽप्येवं शङ्केत, यथा-एतैरेवायं मारितः । अथवा जुगुप्सा भवेत्-अशुचयोऽमी यद् मृतक30 माकर्षन्ति । अथैतद्दोषभयान्न ते वयं परिष्ठापयन्ति नाप्यन्यैस्त्याजयन्ति तर्हि मृतकगन्धेन संयतानां नासाशासि जायेरन् । तथाऽखाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रपौरुषीमर्थपौरुषी चाकुर्वतां यदि सूत्रं नश्यति १ शुन्या कृता भा० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296