Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 210
________________ भाष्यगाथाः ५७६-८४] पीठिका। १६९ भेदः प्रकार इत्यनान्तरम् , शय्याया विधिर्वक्ष्यमाणा (गा० ५९३) नव शय्याया भेदाः । एतैर्मूलकरणादिदोषैर्यः सम्यक् परिहत्तुं जानाति स शय्याग्रहणे कल्पिको भवति ॥ ५८०॥ अथ कतिविधं मूलकरणमुत्तरकरणं वा शोधनीयम् ? अत आह सत्तेव य मूलगुणे, सोही सत्तेव उत्तरगुणेसु । संसत्तम्मि य छकं, लहु-गुरु-लहुगा चरम जाव ॥ ५८१॥ 'सप्तैव' सप्तप्रकारैव शोधिमूलगुणेषु, गाथायामेकवचनमार्षत्वात् , 'सप्तैव' सप्तप्रकारैवोतरगुणेषु शोधिः । किमुक्तं भवति ?-मूलकरणं सप्तभेदं शोधनीयं वसतेः साधुभिः, उत्तरकरणमपि सप्तविधमिति । तथा संसक्ते उपाश्रये 'षट्कं' पृथिव्यप्तेजो-वनस्पति-त्रसकाय-सागारिकलक्षणं शोधनीयम् । किमुक्तं भवति ? यथोक्तरूपेण षट्केन संसक्तायामपि न स्थातव्यम् । यदि तिष्ठति ततो लघु-गुरु-लघुका यावत् 'चरमं पाराश्चितं तावत् प्रायश्चित्तम् । तद्यथा-पृथि-10 व्यादिभिः कायैः संसक्तायां तिष्ठन्ति (तिष्ठति) चत्वारो लघुकाः, हरितैरनन्तैश्चत्वारो गुरुकाः, प्रत्येकवीजैः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तबीजैस्तान्येव गुरुकाणि, मित्रैः पृथिव्यादिभिर्मासलघु, मित्रैरनन्तैर्मासगुरु, बीजैः प्रत्येकैरनन्तैश्च मित्रैः सचित्तैरिव, सैः संसक्तायां चतुर्गुरु, एवं तिष्ठतः प्रायश्चित्तम् । अथ तिष्ठन् पृथिवीकायादिसङ्घटनादि करोति तदा लघुक-गुरुकादि प्रायश्चित्तम् “छक्काय चउसु लहुगा" इत्यादि(४६१)गाथया प्रागुक्तप्रकारेणाभि-15 हितं तावदवसेयं यावच्चरमं पाराञ्चितमिति ॥ ५८१ ।। "सप्तविधं मूलकरणं शोधनीयम्" इत्युक्तम् अतः सप्त मूलभेदानाह पट्टीवंसो दो धारणाउ चत्तारि मूलवेलीतो। मूलगुणेहिँ उवहया, जा सा आहाकडा वसही ॥ ५८२ ॥ उपरितनस्तिर्यक्पाती पृष्ठवंशः, द्वौ मूलधारणौ ययोरुपरि पृष्ठवंशस्तिर्यग् निपात्यते, चतस्रश्च 20 मूलवेलय उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् । एते वसतेः सप्त मूलभेदाः । एतैर्मूलगुणैः सप्तभिरुपहता या वसतिः सा आधाकृता भवति । साधून आधाय-सम्प्रधार्य कृता आधाकृता, पृषोदरादित्वादिष्टरूपनिष्पत्तिः ॥ ५८२ ॥ उत्तरकरणं पुनरिदं सप्तविधम् वंसग कडणोकंचण, छावण लेवण दुवार भूमी य । सप्परिकम्मा वसही, एसा मूलोत्तरगुणेसु ॥ ५८३ ॥ वंशका ये वेलीनामुपरि स्थाप्यन्ते, पृष्ठवंशस्योपरि तिर्यक् 'कटनं' कटादिभिः समन्ततः पार्थानामाच्छादनम् , 'उत्कञ्चनम्' उपरि कम्बिकानां बन्धनम् , 'छादनं' दर्भादिभिराच्छादनम् , 'लेपन' कुड्यानां कर्दमेन गोमयेन च लेपप्रदानम् , “दुवार" त्ति संयतनिमित्तमन्यतो वसतेीरकरणम् , "भूमि" ति समभूमिकरणम् । एतत् सप्तविधमुत्तरकरणम् । एषा सपरिकर्मा वसतिर्मूलगुणैरुत्तरगुणैश्च । एषा नियमेनाविशोधिकोटिः । अन्येऽपि चोत्तरगुणा वसतेर्वि-30 द्यन्ते तैः कृता विशोधिकोटिः ॥ ५८३ ॥ के तेऽन्ये उत्तरगुणाः ? इत्यत आह दूमिय धूविय वासिय, उजोविय बलिकडा अवत्ता य । सित्ता सम्मट्ठा वि य, विसोहिकोडी कया वसही ।। ५८४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296