________________
१६० सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः तर्हि तिष्ठत यूयं यदि गताः श्रमणाः । ते स्थिताः । आगताः साधवः प्रवेष्टुं प्रवृत्ता वसतौ बटुकैर्निवारिताः-माऽत्र प्रविशथ, वयमग्रे तिष्ठामः । ततः 'असङ्खडं' कलहः परस्परमुपजायते । बटुका ब्रुवते-वसतिरस्माकं खामिना दत्ता, किमत्र युष्माकम् ? । इतरेऽपि वदन्ति
खामिनैवास्माकमपि वसतिरदायि । ततः साधवः शय्यातरसकाशं गच्छन्ति । स ब्रूते-यूयम। नापृच्छया शून्यं कृत्वा गताः, मया ज्ञातम्-गता यूयं येन शून्यीकृता दृश्यते वसतिः, अतो मया 'द्विजानां' बटुकानां दत्ता वसतिः 'इति' तस्मात् 'संवृत्येन' परस्परसश्चिन्त्या यूयं बटुकाश्चैकत्र स्थाने तिष्ठत, नाहमात्मानमलीकं करोमि । तत्र यदि संवृत्येन तिष्ठन्ति तत्र पठतां प्रतिलेखनां च कुर्वतां संयतभाषाभिश्च 'उड्डञ्चकान्' देशीपदमेतद् उपहासान् कुर्युः, ततः 'अधिकरणम्' असङ्खडम् । अथवा शय्यातरो भद्रकः ततस्तान् बटुकान् निष्काश. 10 येत्, तथा च सति 'अधिकरणं' संयतप्रयोगेण वयं निष्काशिताः तस्माद् ज्ञातव्यं संयतानाम् ।
अथवा 'निच्छूढाः' निष्काशिताः सन्त उभयेषामपि सागारिकस्य संयतानां चोपरि प्रद्वेष गच्छेयुः । ततस्ते एवं 'निक्षिप्ताः' निष्काशिताः सन्तः प्रद्विष्टाः स्तेनप्रयोगतोऽज्यादिप्रक्षेपतश्च 'उभयस्यापि' सागारिकस्य संयतानां च यद् अनर्थजातं करिष्यन्ति तदपि' तन्निप्पन्नमपि प्रायश्चित्तं 'ते' संयताः शून्यवसतिकारिण आपद्यन्ते ॥ ५४७ ॥ ५४८॥ ५१९॥ 18 गत बटुकद्वारम् । इदानी चारणद्वारं भटद्वारं चाह
एमेव चारण भडे, चारण उड्डंचगा उ अहिगतरा ।
निच्छूढा व पदोस, तेणा-ऽगणिमाइ जह बडया ॥ ५५०॥ 'एवमेव' बटुकगतेनैव प्रकारेण चारणे भटे च दोषा वक्तव्याः । किमुक्तं भवति ?-ये वटुकेषु दोषा उक्तास्ते चारणे भटे च प्रत्येकमवसातव्याः । नवरं चारणा(णे) बटुकेभ्योऽधिक20 तराः, यतस्ते 'उदञ्चकाः' याचकाः । इयमत्र भावना-ते चारणाः प्रपञ्चबहुलाः, ततः संयतान्
प्रपञ्चय तेभ्यो याचन्ते, ततस्तैः सहैकनिवासेऽधिकतरा दोषाः । तथा चारणा भटाश्च निष्काशिताः प्रद्वेषमापन्नाः स्तेनाम्यादिभिरुभयेषामप्यनर्थ कुर्युर्यथा बटुका इति ॥ ५५० ॥ इदानी तिर्यमरणद्वारं मनुष्यमरणद्वारमादेशद्वारं चाह
छड्डुणि काउड्डाहा, घाणारिस सुत्तवन्न अच्छंते । 25
इति उभयमरणदोसा, आएस जहा बडुगमाई ॥ ५५१ ॥ शून्यां वसतिं दृष्ट्वा गवादिस्तिर्यङ् अनाथमनुप्यो वा प्रविश्य म्रियते तं यदि गृहस्थैरसं. यतैः परिष्ठापयन्ति तदा 'छर्दने' परिष्ठापने पण्णां कायानां पृथिव्यादीनां विराधना । अथाऽऽत्मना परिष्ठापयन्ति तदा प्रवचनस्योड्डाहः 'उचिता एतेऽस्य कर्मणः' इति । अथवा कोऽप्येवं शङ्केत, यथा-एतैरेवायं मारितः । अथवा जुगुप्सा भवेत्-अशुचयोऽमी यद् मृतक30 माकर्षन्ति । अथैतद्दोषभयान्न ते वयं परिष्ठापयन्ति नाप्यन्यैस्त्याजयन्ति तर्हि मृतकगन्धेन संयतानां नासाशासि जायेरन् । तथाऽखाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रपौरुषीमर्थपौरुषी चाकुर्वतां यदि सूत्रं नश्यति १ शुन्या कृता भा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org