________________
पीठिका |
सोच्चा पत्तिमपत्तिय, अकयन्नु अदक्खिणा दुविह छेदो । भरियभरागमनिच्छुभ, गरिहा न लभंति वऽन्नत्थ ॥ ५४५ ॥ भेदो य मासकप्पे, जदलंभे विहारादि पावते अन्नं ।
बहिभुत्त निसागमणे, गरिह विणासा य सविसेसा ॥ ५४६ ॥
ते साधवो भिक्षादिनिमित्तं सर्वमात्मीयं भाण्डमादाय शून्यां वसतिं कृत्वा गताः, शय्यातरश्चागतः, दृष्टा तेन शून्या वसतिः, पृष्टं कस्यापि पार्श्वे - क गताः साधवः ?, गृहमानुषैरुक्तम् — दृश्यते शून्या वसतिस्तस्मादवश्यमन्यत्र गताः । इदं तेषां वचः श्रुत्वा यदि प्रीतिकमुपजायते यथा - यदि 'गता गता नाम' इति तदाऽऽरोपणा चत्वारो लघुकाः । अथ तस्याप्रीतिकमुत्पद्यते यथा - 'अकृतज्ञाः' एते एनमप्युपचारं न जानन्ति यथा 'आपृच्छय गन्तव्यम्' अथवा 'अदाक्षिण्याः' निःस्नेहास्ततोsनापृच्छया गता इति तदा चतुर्गुरुकम् । तथा द्विविधश्छेदः, तथाहि - 10 सप्रद्विष्टस्तेषामन्येषां वा साधूनां तद्द्रव्यस्य वसतिलक्षणस्यान्यद्रव्याणां वा भक्तपानादीनां व्यवच्छेदं कुर्यात् । “भरियभरागमनिच्छुभ" त्ति ततः स कषायितः शय्यातरो यदा ते साधवो भरितभाजनभरेणावनमन्त आगच्छन्ति तदा स्थानं न दद्यात् । तत्र यदि दिवा निष्कासयति तदा चत्वारो लघवः । तथा तैर्भरितैर्भाजनैः सहान्यां वसतिं याचमाना आगाढादिपरितापनामाप्नुवन्ति तन्निष्पन्नमपि तेषां प्रायश्चित्तं चतुर्लघु । तथा जनमध्ये गमाप्नुवन्ति - किं यूय - 15 मकाण्डे एवं निष्कासिताः । ततः 'न भव्या एते' इत्यन्यत्रापि ते वसतिं न लभन्ते । अन्यत्र च वसतिमलभमाना ग्रामादौ व्रजन्ति ततो मासकल्पभेदः । तत्र च विहारक्रमे या विराधना तन्निष्पन्नाऽपि तेषामारोपणा । तथाऽन्ये साधवो विहारादिनिर्गतास्तत्र समागताः, तत्र चान्या वसतिर्न विद्यते, स च शय्यातरस्तेषां दोषेणान्येषामपि न ददाति, ततो विहाराद्यागता वसतेरलाभे यत्ते श्वापद - स्तेनादिभ्योऽनर्थमाप्नुवन्ति तन्निष्पन्नमपि तेषां प्रायश्चित्तम् । एवं तावत् 20 कृतभिक्षाटनमात्राणामुक्ता दोषाः । अथ बहिरेव भुक्त्वा रात्रावागता वसतिं न लभन्ते तदाऽऽरोपणा चतुर्गुरु, सविशेषतराश्च गर्हादयो दोषाः, विनाशश्च श्वापदादिभ्यः । अथवा स शय्यातरः प्रथमं सम्यग्दृष्टिर्भूतः पश्चाद् 'अनापृच्छया गताः' इति भावविपरिणामतो मिध्यात्वं यायात् || ५४५ || ५४६ ।। गतं मिथ्यात्वद्वारम् । अधुना बटुकद्वारमाह-
भाष्यगाथाः ५४०-४९]
सुन्नं दहुं बडगा, उभासिते ठाह जड़ गया समणा ।
आगम पवेस संखड, सागरि दिनं ति य दियाणं ॥ ५४७ ।। संमिचेण व अच्छह, अलियं न करेमेऽहं तु अप्पाणं । उहुंचग अहिगरणं, उभयपयोसं च निच्छूढा ।। ५४८ ॥ सागरिय- संजयाणं, निच्छूढा तेण अगणिमाईहिं ।
जं काहिंति पट्ठा, उभयस्स वि ते तमावज्जे ॥ ५४९ ॥ शून्यां वसतिं दृष्ट्वा 'बटुकाः ' चाटाः सागारिकम् 'अवभाषन्ते' याचन्ते - अस्माकमुपाश्रयं प्रयच्छत । शय्यातरो ब्रूतेते तत्र श्रमणास्तिष्ठन्ति । बटुकैरुक्तम् - गतास्ते । शय्यातरः प्राह
१ विहादि ता० ॥ २ रेमि हं ता० ॥
Jain Education International
९.५९
For Private & Personal Use Only
25
30
www.jainelibrary.org