SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 15 १५८ सनियुक्ति-भाष्य-वृत्तिके वृहत्कल्पसूत्रे [अनुयोगाधिकारः संजोग सइंगाले, अणंतमीसे वि चउगुरू होति ।। वीसुम्मीसे मासो, सेसे लघुका उ सव्वेसु ॥ ५४०॥ संयोजना द्विविधा-अन्तर्बहिश्च; तत्रान्तःसंयोजनायां चत्वारो लघवः, बहिःसंयोजनायां चत्वारो गुरुकाः । अन्ये त्वन्तर्बहिर्वा संयोजनायां चत्वारो गुरुका इति प्रतिपन्नाः । प्रमाणा5 तिरिक्तमाहारयति चत्वारो लघवः । “सइंगाले"ति साङ्गारे आहार्यमाणे चत्वारो गुरुकाः । सधूमे चतुर्लघु । निष्कारणे चतुर्लघु । सचित्तानन्तमिश्रे चतुर्गुरुकम् ; एतच्च प्रागेव स्वस्थानेऽभिहितम् । तथा 'विष्वगुन्मिश्रे' पृथिवीकायादिभिः प्रत्येकैर्मिघैरुन्मिने लघुको मासः, अनन्तैरुन्मिश्रे गुरुकः । "सेसे लहुगा उ सबेसु" 'शेषेषु सर्वेष्वपि' ग्रहणैषणाभेदेषु ग्रासैषणाभेदेषु च चत्वारो लघुकाः, ते च तथैव योजिताः ॥ ५४० ॥ 10 गतः पिण्डकल्पिकः । सम्प्रति शय्याकल्पिकमाह दुविहाँ हवंति सेजा, दवे भावे य दव्य खायाती । शय्याकल्पिकः साहूहिँ परिग्गहिया, ते चेव उ भावओ सेजा ॥ ५४१॥ द्विविधा भवन्ति शय्याः-द्रव्यतो भावतश्च । तत्र द्रव्यतः 'खातादयः' खातमुच्छ्रितं खातोच्छूितं च । एता द्रव्यशय्याः साधुभिः परिगृहीता भावतः शय्या भवन्ति ॥ ५४१ ।। रक्खण गहणे तु तहा, सेजाकप्पो उ होइ दुविहो उ ।। सुन्ने बाल गिलाणे, अव्वत्ताऽऽरोवणा भणिया ॥ ५४२ ॥ शय्यायां कल्पते इति शय्याकल्पः शय्याकल्पिक इत्यर्थः । स द्विविधः-तस्या भावशय्याया रक्षणे ग्रहणे च । तत्र रक्षणे प्रोच्यते-वसतिनियमतस्तावद् रक्षयितव्या, यदि पुनर्मि क्षादिप्रयोजनतो गच्छन्तः शून्यां वसतिं कुर्वन्ति बालं ग्लानमव्यक्तं वा वसतिपालं स्थापयन्ति 20 तदा 'आरोपणा' प्रायश्चित्तं भणिता ॥ ५४२ ॥ तामेवोपदर्शयति पढमम्मि य चउलहुँया, सेसेसुं मासियं मुणेयव्वं । दोहि गुरू इक्केणं, चउथपए दोहि वी लहुयं ॥ ५४३॥ प्रथममिह गाथाक्रमप्रामाण्यात् शून्यमुच्यते । यदि शून्यां वसतिं कुर्वन्ति तदाऽऽरोपणा चत्वारो लघुका द्वाभ्यां गुरवः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च । अथ बालं स्थापयन्ति 25 तदा मासलघु तपोगुरु काललघु । ग्लानं स्थापयन्ति मासलघु तपोलघु कालगुरु । 'चतुर्थपदे' अव्यक्तस्थापनलक्षणे मासलघु द्वाभ्यामपि लघुकम् , तद्यथा--तपसा कालेन च ॥ ५४३ ॥ उक्ताऽऽरोपणा । साम्प्रतमेतेष्वेव दोषा वक्तव्याः, तत्र प्रथमं तावच्छून्ये दोषानाह मिच्छत्त बडुग चारण, भडाण मरणं तिरिक्ख-मणयाणं। वसतिशून्यकरणे आदेस वाल निक्केयणे य सुन्ने भवे दोसा ।। ५४४ ॥ 30 शून्यायां वसतौ कृतायां कदाचित् शय्यातरस्य मिथ्यात्वगमनम् , बटुकप्रवेशः, चारण प्रवेशः, भटप्रवेशः, तिरश्चां मनुष्याणां वा तत्र मरणम् , 'आदेशाः' प्राघूर्णकास्तत्प्रवेशः, व्यालप्रवेशः । एते शून्ये उपाश्रये कृते दोषा भवन्ति । तथा 'निःकेतने' प्रसूतायाः स्त्रियास्तिरच्या वा निष्कासने दोषाः ॥ ५४४ ॥ तत्र प्रथमं मिथ्यात्वद्वारमाह १°हा य होति ता० ॥ २ स वेव य भा° ता० ॥ ३°हुयं ता० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy