SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 16 भाष्यगाथाः ५३६-३९] पीठिका। १५७ परीतेष्वनन्तरं परम्परं वा प्रतिष्ठितं गृह्णतः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तेषु गुरुकाणि । अन्ये तु ब्रुवते-प्रत्येकमिश्रेऽनन्तरं परम्परं वा प्रतिष्ठितमाददानस्य लघु रात्रिन्दिवपञ्चकम् , अनन्तमिश्रेऽनन्तरं परम्परं वा प्रतिष्ठितं गृह्णतो गुरुकमिति । तथाऽपरे—प्रत्येके सचित्तमनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघवः, परम्परप्रतिष्ठितं मासलघु; तथा प्रत्येके मिश्रेऽनन्तरप्रतिष्ठितमाददानस्य लघुको मासः, परम्परप्रतिष्ठितं गृह्णतो लघु रात्रिन्दिवपञ्चकम् ; अनन्ते। मिश्रेऽनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठिते गुरु रात्रिन्दिवपञ्चकमिति । उक्तञ्च पुढवी आऊ तेऊ, [य] परिते चेव तह य वणकाये । चउलहु अणंतरम्मी, सच्चित्ते परंपरे मासो॥ मीसाणंतर लहुगो, लहुपणग परंपरे परितेसु । एए चेव य गुरुगा, होति अणंते पइट्ठाणे ॥ इति। 10 त्रसकायेऽनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघुकम् , परम्परप्रतिष्ठितं गृह्णतो मासलघु; "तसकाये चतुलहुगा, अणंतर परंपरहिए लहुगो" इति वचनात् ॥ ५३८ ॥ एवं षड्जीवनिकायेषु प्रत्येकेऽनन्ते मिश्रे च पृथिव्यादौ बीजे च प्रत्येकेऽनन्ते मिश्रे चानन्तरं परम्परं च प्रतिष्ठितमाददानस्य प्रायश्चित्तमिति । अधुना पिहितं संहरणं चाधिकृत्य प्रायश्चित्तमाह एमेव य पिहियम्मी, लहुगा दवम्मि चेव अपरिणए । 'एवमेव' अनेनैव प्रकारेण पिहितेऽपि प्रायश्चित्तं वक्तव्यम् । किमुक्तं भवति :-यथा निक्षिप्ते प्रायश्चित्तमुक्तमेवं येन द्रव्येण सचित्तेनाचित्तेन मिश्रेण वाऽनन्तरं परम्परकं वा पिधीयते तत्रापि द्रष्टव्यम् , नवरमचित्तेन गुरुकेण पिहिते गृह्णतश्चतुर्गुरुकम् । संहरणे-येन मात्रकेण भिक्षा दातुकामस्तत्र यदि किञ्चित् प्रक्षिप्तं वर्तते तदन्यत्र संहृत्य ददाति तच्च संहियमाणमद्याप्यपरिणतं तस्मिन्नपरिणते द्रव्ये संहृते गृह्णतश्चत्वारो लघुकाः । दायके-प्रगलिते 20 नपुंसके चत्वारो गुरुकाः, पिञ्जन-कर्तन-लक्ष्णखण्डकरण-प्रमर्दनप्रवृत्तेषु प्रत्येक मासलघु, शेषेषु दायकदोषेषु चत्वारो लघुकाः । उन्मिश्रे-सचितानन्तमिश्रे चतुर्गुरु, मिश्रानन्तमिश्रे मासगुरु, सचित्तप्रत्येकमिश्रे चतुर्लघु, प्रत्येकमिश्रमिश्रे मासलघु ॥ वीसुम्मीसे पणगं, अणंतवीए य पणग गुरू ।। ५३९ ॥ 'विष्वगुन्मिश्रे' प्रत्येकवीजोन्मिश्रे लघु रात्रिन्दिवपञ्चकम् , अनन्तबीजोन्मिश्रे गुरु रात्रि-25 न्दिवपञ्चकम् । अपरिणते-द्रव्यापरिणते कायनिष्पन्नम् , ये कायाः प्रत्येकरूपा अनन्तरूपा वा अपरिणतास्तन्निष्पन्नमित्यर्थः। तत्र पृथिव्यादिष्वपरिणतेषु चतुर्लघुकम्, अनन्तेष्वपरिणतेषु चतुर्गुरु । उक्तञ्च दवापरिणते चउलहु, पुढवादी चउगुरू अणंतेसु । "भावापरिणते दोण्हं तु भुजमाणाणमेगो तत्य निमंतए"दश.अ. ५.उ.१गा.३७ इत्येवंरूपे लघुको मासः, “भावा-30 परिणते लघुगो" इति वचनात् । लिप्ते-आयेषु त्रिषु भङ्गेषु चत्वारो लघुकाः, चरमभङ्गेऽनेषणायां चतुर्गुरवः । छर्दिते-आयेषु त्रिषु भङ्गेषु प्रत्येकं चतुर्लघुकम्, चरमभङ्गेऽनाचीर्णम् ॥५३९॥ १ अनन्तेऽन त० विना ॥ २ बीउम्मीसे ता० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy