________________
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः मपि पञ्च रात्रिन्दिवानि । "लघुका य सेसेसु"त्ति येऽन्ये उद्गमदोषास्तेषु सर्वेष्वपि प्रत्येक चत्वारो लघुकाः, तद्यथा-औदेशिके कर्मणि १ यावन्तिके मिश्रजाते २ प्रकाशकरणे ३ आत्मद्रव्यक्रीते ४ परद्रव्य(ग्रन्थानम्-४०००)कीते ५ आत्मभावक्रीते ६ लौकिकेऽपमित्ये ७ लौकिके परिवर्तिते ८ परग्रामाभ्याहृते निष्प्रत्यपाये ९ पिहितोद्भिन्ने १० कपाटो6 द्भिन्ने ११ उत्कृष्ट मालापहृते १२ आच्छेद्ये १३ अनिसृष्टे १४ एतेषु चतुर्दशसु स्थानेषु चत्वारो लघुकाः ॥ ५३४ ॥ ५३५॥ तदेवमुक्तमुद्गमदोषेषु प्रायश्चित्तम् । इदानीमुत्पादनादोषेषु तदभिधित्सुराह
दुविह निमित्ते लोमे, गुरुगा मायाऍ मासियं गुरुयं ।
सुहुमे वयणे लहुओ, सेसे लहुगा य मूलं च ॥ ५३६ ॥ 10 निमित्तं त्रिविधम्-अतीतविषयं प्रत्युत्पन्नविषयमनागतविषयं च; तत्र 'द्विविधे निमित्ते'
प्रत्युत्पन्न विषयेऽनागतविषये च तथा लोभे च प्रत्येकं चत्वारो गुरुकाः । मायायां मासगुरु । 'सूक्ष्मे' [सूक्ष्म चैकित्स्ये वचनसंस्तवे च प्रत्येकं लघुको मासः । शेषेषु तु समस्तेषूत्पादनादोषेषु प्रत्येकं चत्वारो लघवः, नवरं मूलकर्मणि मूलम् ॥ ५३६ ॥ __ सम्प्रति दशस्त्रेषणादोषेषु प्रायश्चित्तमाह
ससरक्खे ससिणिद्धे, पणगं लहुगा दुगुंछ संसत्ते ।
उकुट्टऽणते गुरुगो, सेसे सव्वेसु मासलहू ॥ ५३७ ॥ शङ्किते-पञ्चविंशतेोषाणां मध्ये यत् शक्कितं तन्निष्पन्नमापद्यते प्रायश्चित्तम् । म्रक्षिते-- 'सरजस्केन' सचित्त-मिश्रपृथिवीकायरजोम्रक्षितेन हस्तेन मात्रकेण वा भिक्षां गृह्णतः पञ्च रात्रिन्दिवानि; सचित्त-मिश्राप्कायस्निग्धेन हस्तेन मात्रकेण वा भिक्षामाददानस्य पञ्च रात्रिन्दि. 20 वानि; अचिचेन जुगुप्सितेन-विष्ठा-मूत्र-मद्य-मांस-लशुन-पलाण्डुप्रभृतिना प्रेक्षिते गृह्यमाणे
चत्वारो लघुकाः; गुड-घृत-तैलादिभिरपि कीटिकासंसक्तैर्मक्षितमाददानस्य चत्वारो लघवः; पुरःकर्मणि पश्चात्कर्मणि च चतुर्लघुकाः, अन्ये मासलघु प्रतिपन्नवन्तः; उत्कुट्टितेऽनन्ते सचित्ते वनस्पतिकायिके मासगुरु; चूर्णेऽप्यनन्ते सचित्ते मासगुरु; "सेसे सवेसु मासलहू" परीते प्रत्येके कुट्टिते चूणे वा प्रत्येकं मासलघु; मिश्रे परीते सर्वत्र मासलघु; अनन्ते 25 मासगुरु; तथा मृत्तिकालिप्तहस्ते यावन्तः सेटिकादयो मृत्तिकाया भेदास्तेषु सर्वेषु मासलघु ॥ ५३७ ।। निक्षिप्ते प्रायश्चित्तमाह
चउलहुगा चउगुरुगा, मासो लहु गुरु य पणग लहु गुरुगं ।
छसु परितऽणंत मीसे, बीए य अणंतर परे य ॥ ५३८ ॥ प्रत्येकसचित्तानन्तरप्रतिष्ठितमाददानस्य चत्वारो लघुकाः, प्रत्येकसचित्तपरम्परप्रतिष्ठितमपि 50 चत्वारो लघवः । अनन्तसचित्तानन्तरप्रतिष्ठितमाददानस्य चत्वारो गुरुकाः, अनन्तसचित्तपरम्परप्रतिष्ठितमपि गृह्णतश्चत्वारो गुरुकाः । प्रत्येकमिश्रेऽनन्तरप्रतिष्ठितं परम्परप्रतिष्ठितं वा गृहतो मासलघु । अनन्तमिश्रेऽनन्तरं परम्परया वा प्रतिष्ठितमाददानस्य मासगुरु । बीजेषु १°भ्रक्षितेन गृ° डे० भा० ॥ २ चत्वारो गुरुकाः डे० त०॥ ३ मासगुरु डे० त०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org