________________
भाष्यगाथाः ५३१ - ३ '५ ]
पीठिका |
जातिय उद्देसो, पासंडीणं भवे समुद्देसो । समणाणं आदेसो, निग्गंथाणं समादेसो ॥
Jain Education International
१५५
एतस्मिन् द्वादशविधे विभागोद्देशिके यत् चरमं त्रिकं - समुदेशकर्म आदेशकर्म समादेशकर्म च तत्र गृह्यमाणे प्रत्येकं चत्वारो गुरुकाः तपः - कालविशेषिताः । “मीस "त्ति मिश्रजातं त्रिविधम्- यावन्तिकमिश्रं पाषण्डिकमिश्रं स्वगृहमिश्रं च तत्र पाषण्डिमिश्रे खगृहमिश्रे च5 प्रत्येकं चत्वारो गुरुकाः तपः - कालगुरवः । " बायर "त्ति द्विविधा प्राभृतिका - सूक्ष्मा बादरा च; तत्र वादरायां गृह्यमाणायां चत्वारो गुरुकाः । “सपच्चवा यह डे" ति यत्र यत्र ग्रामादौ सपत्यपायमभ्याहृतं तत्र तत्र चत्वारो गुरुकाः । तदेवं येषूनम मेदेषु गुरुकास्ते उक्ताः, सम्प्रति येषु मासगुरु तान् प्रतिपादयति - "कड पूइए य" इत्यादि । कृते उद्देशिके चतुःप्रकारेऽपि प्रत्येकं मासगुरुकं तपः-कालविशेषितम्, तद्यथा - यावन्तिके मासगुरु, समुद्देशकृते तपोगुरुकं 10 मासगुरु, आदेशकृते कालगुरुकं मासगुरु, समादेशकृते मासगुरु द्वाभ्यां गुरुकं तपोगुरुकं कालगुरुकं च । “पूतिए "त्ति भावपूतिकं द्विविधम् - सूक्ष्मं बादरं च; तत्र सूक्ष्मे नास्ति प्रायश्चित्तम् ; बादरं द्विविधम् - उपकरणे भक्तपाने च; अत्र भक्तपानपूतिके मासगुरु । “अज्झोयरए य चरमदुगे”त्ति अध्यवपूरकं त्रिविधम्, तद्यथा - यावन्तिकमध्यवपूरकं पाषण्डाध्यवपूरकं खगृहाध्यवपूरकं च; तत्र पाषण्डाध्यवपूरके खगृहाध्यवपूरके च प्रत्येकं मासगुरु 15 ॥ ५३३ ॥ उक्तानि गुरुकप्रायश्चित्तानि । अधुना लघुकप्रायश्चित्तान्यभिधित्सुराह - ओह - विभागुद्देसे, चिरठविए पागडे य उवगरणे । लोगुत्तर. पामिच्चे, परियट्टिय कीय परभावे ।। ५३४ ॥ सग्गामभिहडि गंठी, जहन्न जावंति ओयरे लहुओ । इत्तर विए सुहुमा, पणगं लहुगा य सेसेसु ।। ५३५ ॥
ओघौद्देशिके मासलघु । विभागौद्देशिके- उद्देशे मासलघु, समुद्देशे मासलघु तपोगुरु, आदेशे मासलघु कालगुरु, समादेशे मासलघु द्वाभ्यां गुरु । स्थापितं द्विविधम्- चिरस्थापितमित्वरस्थापितं च; तत्र चिरस्थापिते मासलघु । प्रादुष्करणं द्विविधम्- प्रकटकरणं प्रकाश करणं. [च]; तत्र प्रकटकरणे मासलघु । उपकरणपूतिके मासलघु । प्रामित्यं द्विविधम्-लौकिकं लोकोत्तरिकं च; लोकोत्तरिके मासलघु । परिवर्तितमपि द्विधा - लौकिकं लोकोतरिकं च; 25 तत्र लोकोत्तरिके परिवर्त्तिते मासलघु । क्रीतं द्विविधम् - द्रव्यक्रीतं भावक्रीतं च; तत्र द्रव्यक्रीतं द्विविधम्-आत्मद्रव्यक्रीतं परद्रव्यक्रीतं च; भावक्रीतमपि द्विधा - आत्मभावक्रीतं परभावक्रीतं च; तत्र परभावक्रीते मासलघु । स्वग्रामाभ्याहते मासलघु । “गठि" त्ति ग्रन्थिपिहितमुच्यते, यत्र गुड-घृतादिभाजनमुखे पोतेन चर्मणा वा स्थगयित्वा दवरकेणोपरि ग्रन्थिर्दीयते, ग्रन्थिस - हिता मुद्रा वा तदुपचाराद् ग्रन्थिरित्यर्थः, तस्मिन्नुद्भिद्यमाने मासलघु । मालापहृतं द्विवि - 30 धम्-जघन्यमुत्कृष्टं च; तत्र जघन्ये मालापहृते मासलघु । तथा यावन्तिकेऽध्यवपूर के मासलघु । तदेवं यत्र यत्र मासलघु तत् तत् स्थानमुक्तम्, इदानीं ययोः पश्च रात्रिन्दिवानि ते वदति - " इत्तर विए" इत्यादि । इत्वरस्थापिते पञ्च रात्रिन्दिवानि । सूक्ष्मप्राभूति काया -
For Private & Personal Use Only
20
www.jainelibrary.org