________________
१५४
सनियुक्ति-भाष्य-वृत्तिके वृहत्कल्पसूत्रे [अनुयोगाधिकारः अधारिता वा तथापि चेदुपयुक्तः सन् सूत्रोक्तप्रकारेण लेपं परिहरति' परिभोगयति स लेपकल्पिकः । तेन च लेपसूत्रेण पठितेनापठितेन वा गुणितेनागुणितेन वा धारितेनाधारितेन वा उपयुक्ते वाऽनुपयुक्ते वा यां विराधनामापद्यते तामाचार्यादेः पुरत आलोचयति, प्रथमत
आचार्यस्य, तदभावे उपाध्यायादेरपि । आलोचिते च "से" तस्य प्रायश्चित्तप्रदानेन विशोधि
5 कारक आचार्यः ॥ ५३० ॥ उक्तो लेपकल्पिकः । सम्प्रति पिण्डकल्पिकमाहपिण्डक
अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा। ल्पिकः
दोहिँ गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ।। ५३१ ॥ सूत्रं नाम प्रागासीदाचारगतं पिण्डैपणाध्ययनम् , इदानीं तु दशवैकालिकगतं पिण्डैपणाध्ययनम् , तस्मिन् 'अप्राप्ते' अपठिते यदि पिण्डस्यानयनाय तं प्रेषयति तदा तस्य प्राय10श्चित्तं चत्वारो गुरुकाः, कथम्भूताः ? इत्याह-द्वाभ्यां गुरवः, तद्यथा-तपसाऽपि गुरुकाः कालेनापि च गुरुकाः । अथ सूत्रं प्राप्तस्तथापि यदि तस्यार्थमकथयित्वा प्रेषयति तदा चत्वारो लघुकाः, नवरमेकेन कालेन लघवः । अथ कथितोऽर्थः परं नाद्याप्यधिगतः अथवाऽधिगतः परमद्यापि न तं सम्यक् श्रद्दधाति तमनधिगतार्थमश्रद्दधानं वा प्रेषयतश्चत्वारो लघुकास्तपसै
केन लघवः । अथाधिगतार्थमप्यपरीक्ष्य प्रेषयति तदा चत्वारो लघुका द्वाभ्यां लघवः, 16 तद्यथा-तपसा कालेन च ॥ ५३१ ॥ यत एवं प्रायश्चित्तमतः
पढिए य कहिय अहिगय, परिहरती पिंडकप्पितो एसो।
तिविहं तीहि विसुद्धं, परिहरनवगेण भेदेणं ॥ ५३२ ॥ पिण्डैपणाध्ययने पठिते तस्यार्थे कथिते तेन चाधिगते उपलक्षणमेतत् सम्यक् अद्धिते च यः 'त्रिविधम्' उद्गमशुद्धमुत्पादनाशुद्धमेषणाशुद्धं 'त्रिभिः' मनोवाकायैर्विशुद्धं परि20 हारविषयेण नवकेन भेदेन परिहरति, तद्यथा-मनसा न गृह्णाति नाप्यन्यैाहयति न च गृहन्तमनुजानीते, एवं वाचा कायेनापि प्रत्येकं त्रिकं त्रिकमवसातव्यम् , एष पिण्डकल्पिकः । अत्र पिण्डनियुक्तिः सर्वा वक्तव्या, सा च ग्रन्थान्तरत्वात् स्वस्थाने एव स्थिता प्रतिपत्तव्या ॥ ५३२ ॥ इह तु षोडशानामुद्गमदोषाणां प्रायश्चित्तमभिधित्सुराह
गुरुगा अहे य चरमतिग मीस बायर सपञ्चवायहडे । __ कड पूइए य गुरुगो, अज्झोयरए य चरमदुगे ॥ ५३३ ॥ "अहे य"त्ति आधाकर्म गृह्णतः प्रायश्चित्तं चत्वारो गुरुकाः । “चरमतिय"त्ति औद्देशिक द्विविधम्-ओघेन विभागेन च; तत्र विभागतो द्वादशविधम् , तद्यथा-उद्दिष्टं कृतं कर्म च; उद्दिष्टं चतुर्विधम्-औदेशिकं समुद्देशिकमादेशिकं समादेशिकं च; कृतमपि चतुर्विधम् , तद्यथा-उद्देशकृतं समुद्देशकृतमादेशकृतं समादेशकृतं च; कर्मापि चतुःप्रकारम् , तद्यथा-उद्दे. 30 शकर्म समुद्देशकर्म आदेशकर्म समादेशकर्म च; त्रयश्चतुष्कका द्वादश । इह यावन्तः
केचन भिक्षाचराः समागच्छन्ति तावतः सर्वान् उद्दिश्य यत् क्रियते तद् उद्देशिकमुच्यते, पाषण्डिन उद्दिश्य क्रियमाणं समुद्देशम् , श्रमणानुद्दिश्याऽऽदेशम्, निर्ग्रन्थानधिकृत्य समादेशम् । उक्तञ्च१°तो सो उ ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org