SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५२२-३०] पीठिका । १५३ संजमहेउं लेवो, न विभूसाए वयंति तित्थयरा । सति-असतीदिटुंतो, विभूसाए होंति चउगुरुगा ॥ ५२७ ॥ लेपः पात्रस्य दातव्यः संयमहेतोर्न विभूषया, उपलक्षणमेतत् , नापि गौरवेण इति भगवन्तस्तीर्थकरा वदन्ति । संयमहेतोः पुनर्दीयमाने लेपे यदि विभूषा भवति तथापि सा संयमहेतुरेव । अत्र सत्या असत्याश्च दृष्टान्तः । तथाहि-सत्यप्यात्मानं विभूषयति असत्यपि, केवलं सती कुलाचारनिमित्तमात्मानं विभूषयतीति तुल्यमपि तद्विभूषणमदुष्टम् , इतरा जारतोषणनिमित्तमिति दोषवत् । एवं यथा सत्यसत्यौ तथा साधू, यथा विभूषणं तथा लेपः, यथा कुलाचारस्तथा संयमः, यथा जारतोषणं तथा असंयमः । विभूषया लेपं ददतः प्रायश्चित्तं चत्वारो गुरुकाः, उपलक्षणमेतत् , तेन गौरवेणापि ददत एतत् प्रायश्चित्तमवसातव्यम् । उक्तश्च 10 संजमहेऊ लेवो, न विभूसा गारवेण वा देयो। चउगुरुग विभूसाए, लिंपिते गारवेणं वा ॥ ॥ ५२७॥ मिज्जिज लिप्पमाणं, लित्तं वा असइए पुणो बंधे। मुद्दियनावाबंधे, न तेणबंधेण बंधेजा ॥ ५२८॥ तत् पात्रं लिप्यमानं लिप्तं वा कथमपि हस्तपतनादिना भिद्यत न चान्यत् पात्रं विद्यते 15 ततस्तत् पात्रं भूयो मुद्रितनौबन्धेन बनीयात् न तेनकबन्धेन ॥ ५२८॥ सम्प्रति लेपस्य जघन्यादिभेदानाह खर अयसि-कुसुंभ सरिसव, कमेण उक्कोस मज्झिम जहन्नो। नवणीए सप्पि वसा, गुले य लोणे अलेवो उ ॥ ५२९ ॥ खरसंज्ञकेन तिलतैलेन यो लेपः स उत्कृष्टः, अतसीतैलेन कुसुम्भतैलेन च मध्यमः, सर्ष-20 पतैलेन जघन्यः । उक्तञ्च सो पुण लेवो खरसन्हएण उक्कोसओ मुणेयबो । अयसि-कुसुंभिय मज्झो, सरिसवतिल्लेण य जहन्नो ॥ 'नवनीतेन' म्रक्षणेन 'सर्पिषा' घृतेन वसया च निर्वृत्तो लेपोऽलेपो ज्ञातव्यः, तस्य पात्रे सम्यग् लगनाभावाद् जुगुप्सितत्वाच्च । तथा गुडभृतेषु लवणभृतेषु वा शकटेषु तिलतैलनक्षि-25 तेष्वपि यो लेपः सोऽप्यलेपः, तस्यापि लवणाद्यवयवयोगतोऽप्रशस्तत्वात् ॥ ५२९ ॥ तदेवमुक्तो लेपस्य विधिः । साम्प्रतं लेपकल्पिकमाह पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति । आलोयायरियादी, आयरिओ विसोहिकारो से ॥ ५३० ॥. यस्मादजानतः प्रायश्चित्तं तस्माद् येन ओपनियुक्तिसूत्रम् इयं वा कल्पपीठिका पठिता 30 स्यात् श्रुता वा 'गुणिता' अत्यन्तखभ्यस्तीकृता स्याद् अगुणिता वा सा धारिता वा स्याद् १ गाथेयं चूर्णौ भिजिज. ५२८ गाथाऽनन्तरं व्याख्याताऽस्ति ॥ २°तो भूसा ता० ॥ ३ तेण एणं तु बं° ता० ॥ Jain Education Internation० २० For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy