________________
१५२
सनियुक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे [अनुयोगाधिकारः वावारेति व अण्णे, गिलाणमादीसु कजेसु ॥ ५२२ ॥ उष्णे च पात्रे दत्ते सति स वर्षादिभ्यो रक्षणार्थम् , वर्ष-वृष्टिः आदिशब्दाद् हिमप्रपातादिपरिग्रहः, श्वा-कुक्कुरस्तद्रक्षणार्थम् 'अभीक्ष्णम्' अनवरतमुपयोगं करोति । यदि वा ग्लानादिप्रयोजनेषु समापतितेष्वन्यान् साधून व्यापारयति, स तु तत्रैव रक्षयन् तिष्ठति ॥५२२॥ । अथ कियन्तः पात्रस्य लेपा दीयन्ते ? इत्याह
एको ये जहनेणं, विय तिय चत्तारि पंच उक्कोसा।
संजमहेउं लेवो, वजित्ता गारव विभूसं ॥ ५२३ ॥ पात्रस्य संयमहेतोर्जघन्येनैको लेपो दातव्यः, मध्यमतो द्वौ त्रयो वा, उत्कर्षतश्चत्वारः पञ्च वा वर्जयित्वा गौरवं विभूषां च । गौरवेणात्मनो महर्द्धिकत्वमननलक्षणेन विभूषया वा न लेपो 10 दातव्यः, किन्तु संयमस्फातिनिमित्तमिति ॥ ५२३ ॥
अणवटुंते तह वि उ, सव्वं अवणेत्तु तो पुणो लिंपे।
तजाय सचोप्पडयं, घट्ट रएउं ततो धोवे ॥ ५२४ ॥ उत्कर्षतः पञ्चखपि लेपेषु यदि स लेपः नावतिष्ठते-न पात्रेण सह लोलीभवति 'ततः' तस्मिन्ननवतिष्ठमाने सर्व लेपमपनीय ततः पुनर्मूलतः पात्रं लिम्पेत् यथा स लेपोऽवतिष्ठते । 16 "तज्जाए"त्यादि । इह यद् अलाब्वादिपानं तैलादिना 'सचोप्पडं' सस्नेहं तत्र च धूलिः प्रभूता लमा तं लेपं घट्टकपाषाणेन घट्टयित्वा तद्गतेनैव च लेपेन भूयस्तत् पात्रं रञ्जयित्वा ततः प्रक्षालयति एष तज्जातो नाम लेपः ॥ ५२४ ॥ सम्प्रति लेपस्यैव भेदानाह
तजाय-जुत्तिलेवो, दुचकलेवो य होइ नायव्वो।
मुद्दियनावाबंधो, तेणगबंधो य पडिकुट्ठो ॥ ५२५ ॥ 20 त्रिविधो लेपो भवति ज्ञातव्यः, तद्यथा-तज्जातलेपो युक्तिलेपो द्विचक्रलेपश्च । द्विचक्रलेपो
नाम शकटलेपः । तत्र लिप्यमानं लिप्तं वा यदि पात्रं कथमपि भङ्गमामुयात् ततोऽन्यस्याभावे मुद्रितनौबन्धेन बध्नीयात् न स्तेनकबन्धेन, यतो मुद्रितनौबन्ध एव तीर्थकरैरनुज्ञातः स्तेनकबन्धस्तु प्रतिक्रुष्टः ।। ५२५ ॥ साम्प्रतमेनामेव गाथां विवरीषुस्तज्जातलेपस्य प्राग्व्याख्यातत्वात् शेषपदव्याख्यानार्थमाह
जुत्ती उ पत्थरायी, पडिकुट्ठा सा उ सन्निही काउं ।
_दय सुकुमाल असन्निहि, दुचकलेवो अतो इट्ठो ॥ ५२६ ॥ 'युक्तिः' पदैकदेशे पदसमुदायोपचाराद् युक्तिलेपः 'प्रस्तरादिः' प्रस्तरादिकृतः, आदिशब्दाच्छर्करा-लोहकिट्ट-केदारमृत्तिकादिपरिग्रहः, सा च युक्तिः सन्निधिरिति कृत्वा तीर्थकर
गणधरैः 'प्रतिकुष्टा' निराकृता । तज्जातलेपश्च कदाचिदवाप्यते । तत एतेषु लेपेषु मध्ये शक30 टलेपः सुन्दरः, यतस्तस्मिन् सुकुमारतया पानजातयो जन्तवः स्पष्टा दृश्यन्ते, दृश्यमानेषु च
तेषु दया (दयां) कत्तुं शक्यते, न च तत्र सन्निधिदोषः, अतः सुन्दरत्वात् स एव द्विचक्रलेप इष्टः ॥ ५२६ ॥
१ उ ता० ॥ २ चउरोय पंच ता० ॥
OD
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org