________________
१५१
:10
भाष्यगाथाः ५१२-२२] पीठिका। चीरेण बद्धा उप्णे ध्रियते, तत्र च पात्रस्योद्वर्तनं परिवर्तनं च तावत् कर्तव्यं यावद लेपः शुष्को भवति, ततः पात्रम् 'अञ्छयते' आकृप्यते, आकृष्य पानीयेन प्रक्षाल्यते, ततः प्रक्षालिते सति पुनरपि लेपो दीयते ॥ ५१७ ॥
काउं सरयत्ताणं, पत्ताधं अबंधगं कुज्जा।
साणाइरक्खणट्ठा, पमन्ज छाउण्हसंकमणा ।। ५१८॥ पात्रे भूयो लिप्ते सति तस्योपरि 'सरजस्त्राणं' रजस्त्राणसहितं पात्राबन्धम् 'अबन्धकम्' अग्रन्थिकं कुर्यात् । कस्मादबन्धकं कुर्याद् ? अत आह—श्वादिरक्षणार्थ' शुन आदिशब्दान्मर्कट-मार्जारादिभ्योऽपि रक्षणार्थम् , अन्यथा हि ग्रन्थौ दत्ते सपात्रबन्धं पात्रं श्वादिभिर्नीयते । तथा छायायामुप्णे च पात्रस्य 'सङ्क्रमणे(गा)' प्रमृज्य तत् पात्रं स्थापयितव्यम् ॥५१८॥
तद्दिवसं पडिलेहा, कुंभमुहादीण होइ कायव्वा ।
- छण्णे य निसिं कुजा, कयकजाणं विवेगो उ ॥ ५१९ ॥ __ यस्मिन् दिने पात्रलेपनं तस्मिन्नेव दिवसे 'कुम्भमुखादीनां' घटकण्ठादीनाम् आदिशब्दात् स्थालीकण्ठादिपरिग्रहः 'प्रत्युपेक्षा भवति कर्तव्या' कुटकण्ठादीनि तस्मिन् दिने आनेतन्यानीत्यर्थः । किमर्थम् ? इत्यत आह-'निशि' रात्रौ तेषामुपरि छन्ने प्रदेशे लिप्तानि पात्राणि कुर्यादित्येवमर्थम् । तदनन्तरं तेषां घटमुखादीनां कृतकार्याणां 'विवेकः' परिष्ठापनिका ॥५१९॥ 15
अट्टगहेउं लेवाहिगं तु सेसं सरूयगं पीसे ।
अहवा वि न दायबो, सरूयगं छारे तो उज्झे ॥ ५२०॥ 'शेषम्' अधिकं लेपम् 'अट्टकहेतोः' अट्टकनिमित्तं सरूतकं पेषयेत् । अथवाऽपि न दातव्योऽट्टकस्ततस्तमधिकं सरूतकं लेपं 'क्षारे' भस्मनि 'उज्झेत्' परिष्ठापयेत् । अयं चार्थो यत्र भणितुमुचितस्तत्र प्रागेवोपदर्शितः (गा० ५११)। सम्प्रति तु गाथाक्रमानुलोमत उक्तः ।।५२०।। 20
पढम-चरिमाउ सिसिरे, गिम्हे अद्धं तु तासि वजित्ता ।
पायं ठवे सिणेहादिरक्खणट्ठा पवेसे वा ॥ ५२१ ॥ ___ 'शिशिरे' शीतकाले प्रथमचरमे पौरुष्यौ वर्जयित्वा 'ग्रीष्मे' उष्णकाले 'तयोः' प्रथमचरमपौरुप्योरर्द्धमई वर्जयित्वा पात्रमुप्णे स्थापयेत् । प्रथमचरमपौरुप्यादिकाले तु मध्ये प्रवेशयेत् । किमर्थम् ? इत्याह- स्नेहादिरक्षार्थ' स्नेहः-अवश्यायः आदिशब्दाद् महिका-हिम- 25 वर्षादिपरिग्रहः तद्रक्षणार्थम् । इयमत्र भावना-शिशिरकाले प्रथमायां पौरुष्यामतिकान्तायामुप्णे ददाति, चरमायां तु पौरुष्यामनवगाढायां मध्ये प्रवेशयति, अन्यथा शिशिरकाले कालस्य स्निग्धतया प्रथमायां चरमायां च पौरुष्यामवश्यायादिपतनभावतो लेपविनाशप्रसकात् । उप्णकाले तु प्रथमायाः पौरुप्या अर्धेऽपक्रान्ते पात्रमुष्णे दद्यात् , चरमायास्तु पौरुप्याः पश्चिमेऽद्धेऽनवगाढे मध्ये प्रवेशयेत् , कालस्य रूक्षतया तत ऊर्दू पश्चाचावश्यायादि- 30 सम्भवात् ॥ ५२१॥
उवयोगं च अभिक्खं, करेति वासादि-साणरक्खड़ा । १ पात्रब° डे० त० ॥ २ °रकालस्य डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org