________________
भाष्यगाथाः ५५०-५५] पीठिका।
१६१ चतुर्लघु, अर्थो नश्यति चतुर्गुरु । अवर्णश्च लोकेषूपजायते-प्राममध्येऽपि वसन्तः स्मशाने तिष्ठन्ति । 'इति' उपप्रदर्शने, एवम् 'उभयस्य' तिरश्चो मनुष्यस्य वा मरणे दोषाः । गतं तिर्यग्-मनुष्यमरणद्वारम् । अधुनाऽऽदेशद्वारमाह-"आदेस जहा बडुगमादी" । 'आदेशाः' प्राघूर्णकास्ते केचन शय्यातरस्य समागताः, शून्यां च वसतिं दृष्ट्वा शय्यातरेण तत्र मुक्ताः, ततो बटुक-चारण-भटेषु ये दोषास्तेऽत्रापि योजनीयाः ॥ ५५१ ॥ गतमादेशद्वारम् । अधुना व्यालद्वारं निष्केतनद्वारं चाह
अहिगरण मारणाऽणीणियम्मि अच्छंते वालि आयवहो ।
तिरितीय जहा वाले, सूतिमणुस्सीऍ उड्डाहो ॥ ५५२ ॥ 'व्यालः' नाम सर्पः शून्यं दृष्ट्वा वसतौ प्रविशेत् , तत आगताः सन्तः श्रमणा यदि तं निष्काशयन्ति तदाऽधिकरणम् , हरितकायादीनां मध्येन तस्य गमनात् । अथवा स निष्का-10 श्यमानः प्रद्वेषगमनतो दशेत् ततो मरणम् । अथवा निष्काशने जनसम्मिलनतः स सो लोकेन मार्येत । अथैतद्दोषभीता न तं सर्प निष्काशयन्ति ततस्तस्मिन् व्याले तिष्ठति आत्मविराधना, तेन भक्षणात् । एते च व्याले दोषाः । अथ निष्केतने तानाह-"तिरितीए" इत्यादि । यदि तिर्यस्त्री प्रसूता निष्काश्यते ततः सा यथा व्यालस्तथैव नियमत इतस्ततो गच्छन्ती हरितकायादीन् व्यापादयेत् , वालकानां च तत्सम्बन्धिनां तां विना तया चानीय-15 मानानां मरणसम्भवः । अथैवं दोषभयात् सा न निष्काश्यते तदा सा तिष्ठन्ती यदा तदा वा साधूनामनर्थ कुर्यात् , तत आत्मविराधना । अथ प्रसूता मानुषी निष्काश्यते तथा (तदा) 'एतेषामियम्' इति प्रवचनोड्डाहः । साऽपि च निष्काश्यमाना कायान् विराधयेत् । लोको वा ब्रूयात्-निरनुकम्पा एते यद् बालसहितामिमां निष्काशयन्ति । सा वा निष्काश्यमाना प्रद्वेषतः साधूनामालं दद्यात् चेटरूपं वा मारयेत् ॥ ५५२ ॥
छड्डेउं व जइ गया, उज्झमणुज्झंति होति दोसा उ ।
एवं ता सुनाए, बाले ठविते इमे दोसा ॥ ५५३ ॥ अथवा सा तत्र प्रसूता सती तं चेटरूपं त्यक्त्वा गच्छेत् ततस्तं यदि 'उज्झन्ति' परित्यजन्ति तदा निरनुकम्पतादोषः । अथ नोज्झन्ति तदा उड्डाहः । एवमेते तावत् शून्यायां वसतौ दोषाः । बाले स्थाप्यमाने पुनरिमे ॥ ५५३ ॥बलि धम्मकहा किड्डा, पमजणाऽऽव रिसणा य पाहुडिया।
बाले वसति खंधार अगणि भंगे, मालव-तणां य नाती य ॥ ५५४ ॥
रक्षके स्था. बलिद्वारं धर्मकथाद्वारं क्रीडाद्वारं प्रमार्जनद्वारम् आवर्षणद्वारं प्राभृतिकाद्वारं स्कन्धावार
प्यमाने द्वारम् अनिद्वारं भङ्गद्वारं मालव द्वारं] स्तेनद्वारं ज्ञातिद्वारं च । एतैरैाले रक्षके स्थाप्यमाने दोषा वक्तव्याः ।। ५५४ ॥ तत्र प्रथमं वलिद्वारमधिकृत्य दोषानाह
साभाविय तन्नीसाएँ आगया भंडगं अवहरंति ।
नीणेमि त्ति व वाहिं, जा पविसइ ता हरंतऽन्ने ॥ ५५५ ॥ १रिथीए जहा ता० ॥ २ वाल ठवेंते ता० ॥ ३°णा त मायी य ता० ॥
वृ० २१
20
26
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org