________________
१६२
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः साधवः कदाचनापि कारणवशतः सप्राभृतिकायां शय्यायां स्थिताः, सप्राभृतिका नाम सार्वजनिका यत्राऽऽगत्य वलिः प्रक्षिप्यते, तत्र ये बलिकारकास्ते द्विधा तत्र समागच्छेयुः, तद्यथा-स्वभावेन वा 'उपकरणं वा हरिप्यामि' इति कैतवेन वा । तत्र ये बलिकारकाः स्वाभाविका नोपकरणहरणप्रवृत्तास्ते 'तन्निश्रया' बलिनिश्रयाऽऽगताः सन्तो बलिं कुर्वन्तो बालमे• काकिनं दृष्ट्वा सञ्जातहरणबुद्धयो भाण्डकमपहरन्ति । अथवा बलिना प्रक्षिप्यमाणेनोपकरणं लेपयुक्तं क्रियते ततः स वालो वक्ति-बहिर्नयाम्युपकरणं येन न लेपयुक्तं क्रियते, ततः स बालो यावद् बहिर्निर्गतः प्रविशति तावदत्रान्तरेऽपह रन्त्युपकरणमन्ये ॥ ५५५ ।। स्वभावत इति गतम् । कैतवमधिकृत्याह
एमेव कइयवा ते, निच्छुढं तं हरंति से उपहिं ।
चाहिं च तुमं अच्छसु, अवणेहुवहिं व जा कुणिमो ॥ ५५६ ॥ 'एवमेव' अनेनैव प्रकारेण कैतवात् 'ते' समागता उपधिमपहरेयुः, तथाहि–केचन धूर्ता उपधिं हर्तुकामाः कैतवात् समागत्य क्षुल्लकं ब्रुवते-क्षुल्लक ! एष. बलिः समागच्छति ततस्त्वं बहिर्निर्गच्छ, एवं तं बहिनिष्काश्य 'से' तस्योपधिमपहरन्ति । अथवेदं वदन्ति-वयं बलिं
करिष्यामः, ततो यावद् वयं बलिं कुर्मस्तावत् त्वं बहिस्तिष्ठ, मा कूरेण खरण्टयिष्यते(प्यसे), ॥ एवं तं निष्काश्य तस्योपधिमपहरन्ति । यदि वा ते एवं ब्रूयुः-यावद् वयं बलिं कुर्मस्तावदभ्यन्तरादात्मीयमुपधिमुपनय, स च बालस्तत्कार्यमजानन् एकवारं च सर्वमुपकरणं 'गेतुमशकुवन् स्तोकं गृहीत्वा निर्गत्य बहिः स्थापयित्वा यावदन्यस्य प्रविशति तावत् तदुपकरणमभ्यन्तरस्थितं धूर्तेरपहियते ।। ५५६ ॥ तदेवं बलिद्वारं गतम् । अधुना धर्मकथाद्वारमाह
कतिएण सभावेण व, कहापमत्ते हरंति से अण्णे |
किड्डा सयं व रिखा, पासति व तहेव किडदुगं ॥ ५५७ ॥ केचन पुरुषाः 'धर्म शृणुमः' इति कैतवेन वा खभावेन वा समागच्छेयुः । तत्र खभावत आगतानां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुपजायते । इतरे तु प्रथमत एव हरणबुद्ध्यैव समागतास्ते क्षुल्लकं ब्रुवते-कथय धर्मकथामस्माकमिति; ततः स कथां कथयितुं प्रवृत्तः प्रबन्धन
च कथयति, कथाप्रमत्ते केचिदग्रत उपविष्टाः शृण्वन्ति, अन्ये तस्योपकरणमपहरन्ति । गतं 25 धर्मकथाद्वारम् । क्रीडाद्वारमाह-"किड्डा" इत्यादि । क्रीडायामपि द्विकं वक्तव्यम् । किमुक्तं
भवति?-क्रीडानिमित्तमपि केचन स्वभावतं आगच्छेयुः केतवेन वा । खभावतोऽप्यागतानां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुल्लसति, तत्र स स्वयं वालः क्रीडति गोलादिना । अथ कदाचित् स क्षुल्लको यात्-न वर्ततेऽस्माकं क्रीडा; ततस्ते वदन्ति-यद्येवं तर्हि रिडाः कुरु, कः कियन्तो वारान् रिङ्कति ? एवं स बालो रिङ्खाः करोति; अथ ब्रूते-न कल्पन्ते संयतानां रिला अपि 30 कर्तुमिति; ततस्ते वदन्ति-यद्येवमस्मान् क्रीडतः पश्य, ततः स कौतुकेन क्रीडतः पश्यति; एवं स्वयं क्रीडया रिङ्खाभिर्वा पश्यन् वा क्रीडाप्रमत्त उपजायते; ततस्तथैवान्ये तेन सह क्रीडन्ति, अन्ये हरन्त्युपकरणमिति ॥ ५५७ ॥ सम्प्रति प्रमार्जनद्वारमावर्षणद्वारं च युगपदाह१°तः समाग भा० ॥
200
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org