________________
10
भाष्यगाथाः ५५६-६१]
पीठिका। जो चेव बली' गमो, पमजणाऽऽवरिसणे वि सो चेव । य एव बलिद्वारे गम उक्तः स एव प्रमार्जने आवर्षणे च द्रष्टव्यः । किमुक्तं भवति ?प्रमार्जननिमित्तमावर्षणनिमित्तं वा केचित् स्वभावेन अपरे कैतवेन समागच्छन्ति, समागत्य च बलिद्वारोक्तेन प्रकारेणोपकरणमपहरन्तीति ॥ इदानीं प्राभृतिकाद्वारमाह
पाहुडियं वा गेण्हसु, परिसाडणियं व जा कुणिमो ॥ ५५८ ॥ 6 'प्राभृतिका' भिक्षाऽपि भण्यते अर्चनिकाऽपि । तत्रोभयमप्यधिकृत्य दोषानाह-कैतवेन खभावेन वा केचन ब्रूयुः क्षुल्लक ! भिक्षां गृहाण, अथवा द्वारे निर्गच्छ यावद् वयं 'परिशाटनिकाम्' अर्चनिकां कुर्मः । एवमुक्तः स यावद् भिक्षामाददाति बहिर्वा निर्गच्छति तावत् तस्योपकरणं हरन्तीति ।। ५५८ ॥ गतं प्राभृतिकाद्वारम् । अधुना स्कन्धावारद्वारममिद्वारं चाह
खंधारभया नासति, एस व एइ त्ति कइयवे णस्स ।
अगणिभया व पलायति, नस्ससु अगणी वै एति ति ॥ ५५९ ॥ कोऽपि स्वभावतः स्कन्धावारभयान्नश्यति ब्रूते च-एष सराजकः स्कन्धावारः समागच्छति, स च तथा खभावतो नश्यन् बालमेकाकिनं दृष्ट्वाऽपहरेत् । अपरः कैतवेन ब्रूते-एष क्षुल्लक ! स्कन्धावारः समायाति तस्माल्लघु पलायख पलायख, ततः स वालो नश्यति; इतरे उपधिमपहरन्ति । अमिभयादपि कोऽपि स्वभावतः पलायते, स च पलायमानो वक्ति-वहिरा-18 गच्छति नश्यतामिति । केचित् पुनः कैतवेन ब्रूयुः-मन्दभाग्याः! नश्यत नश्यत, अमिः समागच्छति ।। ५५९ ॥ ततः किम् ? इत्याह
उवहीलोभ भया वा, न नीति न य तत्थ किंचि नीणेइ ।
गुत्तो व सयं डज्झइ, उवहिं च विणा उ जा हाणी ॥ ५६० ॥ 'उपधिलोभात्' 'उपधिर्मध्ये तिष्ठति तं मुक्त्वा कथमहं यामि ? मा कश्चिदपहरेत्' इत्युप-20 धेलोभतोऽग्निभयाद् वा स बालो बहिर्न निर्गच्छति, न च तत्र बहिः किञ्चिद् निष्काशयति, ततः कथमप्यनिसमागमने स मध्ये गुप्तः सन् स्वयं दह्यते । कैतवेनाम्यागमं कथयित्वाःबालं विप्रलम्भ्योपधिमपहरन्ति । उपधिं च विना या हानिस्तां साधवः प्राप्नुवन्ति ॥ ५६०॥ गतं स्कन्धावारद्वारमग्निद्वारं च । सम्प्रति मालवद्वारं स्तेनद्वारं चाहमालवतेणा पडिया, इयरे वा नासती जणेण समं ।
26 न य गेण्हइ सारुवहि, तप्पडिबद्धो व हीरेजा ॥ ५६१ ॥ मालवा एव स्तेना मालवस्तेनाः, ते मालवग्रहणेन द्वारगाथायां (गा० ५५४) सूचिताः । 'इतरे' अन्ये स्तेनाः, स्तेनग्रहणेन । केचित्तु कैतवेन खभावेन वा युः-मालदस्तेना इतरस्तेना वा पतिताः, तत्र ये कैतवेन ब्रुवते ते पत्तनस्य ग्रामस्य वा भङ्गे जाते उपधिमपहरन्ति । स्वभावेन कथने स बालो भयान्न सारमुपधिं गृह्णाति, अग्रहणे च तदभावे महती हानिः । अथवा स 30 तस्मिन्नुपधौ प्रतिबद्धः सन् मालवस्तेनैरितरैर्वा सोपधिरपहियेत ॥ ५६१ ।।
गतं मालवद्वारं स्तेनद्वारं च । सम्प्रति ज्ञातिद्वारमाह१ केयवे नस्स ता. विना ॥ २ व एसेति ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org