SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे सन्नायगेहि नीते, एंति व नीयत्ति नट्ठे जं उवहिं । कहिँ नीति कयवे, कहिए अन्नस्स सो कहए ॥ ५६२ ॥ चिंधेहिँ आगमेउं, सो वि य साहेइ तुह निया पत्ता । 'नेमो उवहिग्गणं, तेहि व हं पेसितो हरइ ।। ५६३ ॥ स्वज्ञातिकाः स्वभावत आगताः, तैरेकाकी दृष्टः क्षुल्लकः, तैनीतेऽन्ये पश्चादुपधिमपहरेयुः, ततस्तन्निष्पन्नं तेषां साधूनां प्रायश्चित्तम् । अथवाऽन्येन केनापि ते वज्ञातय आगच्छन्तो दृष्टाः, तेनाऽऽगत्य क्षुल्लकस्य कथितम् - निजकास्तव समागच्छन्तीति, ततः स पलायितः, तस्मिन्नष्ठे यमुपधिं जघन्यं मध्यमुत्कृष्टं वाऽपहरन्ति तन्निष्पन्नं तेषां प्रायश्चित्तम् । एवं तावत् स्वभावतः खज्ञातीनामागमने दोषा उक्ताः, अधुना कैतवेन तदागमनकथनतो दोषानाह10 कोऽपि कैतवेनागत्य धूर्तो ब्रूते क्षुल्लक ! व ते निजकाः सन्ति ? । तेन कथितम् अमुके ग्रामे नगरे वा । तेनान्यस्य धूर्तस्य कथितं ' मा स्वयमहं ब्रुवाणो लक्ष्ये' इति ॥ ५६२ ॥ .१६४ 6 20 [ अनुयोगाधिकारः सोऽपि अन्यो धूर्तस्तेषां खज्ञातीनां चिह्नानि नामानि चागम्य तस्य क्षुल्लकस्य समीपमागच्छति, आगत्य ब्रूते - स त्वममुकानां निजकः; क्षुल्लको वक्ति - कुतस्त्वं जानासि ?; इतरो ब्रूते - किं न जानामि ते मातरममुकनामिकां पितरं चामुकमीदृशेन वर्णेन रूपेण वा ? । एवं 26 संवादे कृते स क्षुल्लको वदति -सत्यमहं तेषां निजकः; ततः स धूर्तो भाषते - ते निजकास्तव कृते समागता मयाऽमुकप्रदेशे दृष्टाः, सम्प्रति अन्ये प्रविशन्ति वदन्ति च ते-तमा - त्मीयं नेष्याम इति; ततः स पलायते, इतरे उपधिमपहरन्ति । अथवा वक्ति - तैरहं तवोदन्तवाहकः प्रेषितः; ततः स विश्वासं गच्छति, विश्वस्तस्य चोपधिमपहरेत् । अथवा वदेत्-तवाऽऽनयननिमित्तमहं तैः प्रेषितः; एवमुक्ते स बालः पलायते, इतरे तूपधिमपहरन्ति ॥ ५६३ ॥ एते पदे न रक्खति, बाल गिलाणे तहेव अव्वत्ते । निदा- कहापमत्ते, वत्ते वि य जे भवे भिक्खू || ५६४ ॥ 'एतानि' बलिप्रभृतीनि 'पदानि' स्थानानि बालो न रक्षति, खाभाविकेषु कैतवेषु वैतेषु स्थानेषु बालो विप्रतार्यते इति भावः । तथा ग्लानः 'अव्यक्तो वा' अगीतार्थो यद्वा 'व्यक्तः ' गीतार्थोऽपि च यो भवेद् भिक्षुर्निद्रा-कथाप्रमत्तः सोऽप्येतानि पदानि न रक्षति । कथास्तरङ्गव25 त्यादयो द्रष्टव्याः ॥ ५६४ ॥ ग्लानद्वारमव्यक्तद्वारं चाधिकृत्यैतदेव विशेषत आहएमेव गिलाणे वी, सयकिड्ड - कहा- पलायणे मोत्तुं । अव्वत्तो उ अगीतो, रक्खणकप्पे परोक्खो उ ।। ५६५ ।। 'एवमेव' अनेनैव प्रकारेण ग्लानेऽपि दोषा वक्तव्याः, नवरं खयंक्रीडा-कथा-पलायनानि मुक्त्वा । इयमत्र भावना - ये वाले दोपास्ते ग्लानेऽपि, नवरं यस्तस्यात्मसमुत्थो दोषः 30 स्वयंक्रीडात्मकः कथादोषो भयेन पलायनदोषश्च स न भवति, किन्तु स वारयितुमसमर्थः, नवा तं कोऽपि गणयति, ग्लानत्वात् । अन्यच्च स क्षुधा पिपासयाऽन्यया वा वेदनया परिताप्यमानः सन् कूजेत्, ततो लोको ब्रूयात्-अहो ! निरनुकम्पाः साधवो यदमुं त्यक्त्वा हिण्डन्ते; १ नट्टे उव° ता० ॥ २ मो० विनाऽन्यत्र - षु चैतेकेषु स्था' ले० । 'षु चैकेषु स्था° कां० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy