________________
भाष्यगाथाः ५६२-६८] पीठिका । अपथ्यं वा लोकानीतमकल्पिकं स प्रतिसेवेतेति । तथा अव्यक्तो नाम 'अगीतः' अगीतार्थः स रक्षणकल्पे परोक्षः । किमुक्तं भवति ?-सः 'खाभाविके कैतवे वा कथमुपकरणं रक्षणीयम् ?' इति न जानाति, न वा 'खाभाविकेषु ग्लानत्वादिषु केन प्रकारेणात्मा निस्तारयितव्यः ?, कथं वा उपकरणम् ?' अतः प्रागुक्तं (गा० ५६४) "ग्लानोऽव्यक्तश्चैतानि पदानि न रक्षति"। योऽपि च व्यक्तः सोऽपि यदि निद्रालुर्भवति तरङ्गवत्यादिकथाकथनव्यसनी वा तदा न रक्षति, प्रमादबहुलत्वात् ॥ ५६५ ॥
तम्हा खलु अब्बाले, अगिलाणे वत्तमप्पमत्ते य ।
कप्पइ य वसहिपालो, घिइमं तह वीरियसमत्थो ॥ ५६६ ॥ यस्माद् बालादीनामेते दोषास्तस्माद् यः खल्वबालोऽग्लानो व्यक्तो निद्रा-कथादिभिरप्रमत्तः, पुनः कथम्भूतः ? इत्याह-'धृतिमान्' यस्तृषा क्षुधा वा परितापितोऽपि न शून्यां वसतिं कृत्वा 10 भक्तपानाय गच्छति स इति भावः, 'वीर्यसम्पन्नः' बलवान्, यः स्तेनानापततो निरोद्धं समर्थः अम्यादिसम्भवे तूपधिमात्मानं च निस्तारयति ईदृशः कल्पते वसतिपालः ।। ५६६ ॥ अथ कियन्त ईदृशा वसतिपालाः स्थापयितव्याः ? तत आह
सति लंभम्मि अणियया, पर्णगं जा ताव होति अच्छित्ती।
जहनेण गुरू चिट्ठइ, तस्संदिट्ठो विमा जयणा ॥ ५६७॥ 16 सति भैक्षस्य लाभे अनियता वसतिपालाः स्थापयितव्याः । अयमत्र भावः-यत्रैकः सङ्घाटको भैक्षस्य प्रचुरस्य लाभतोऽन्येषां त्रयाणां चतुर्णा चात्मनश्च पर्याप्तमानयति तत्र यावद्भिस्तिष्ठद्भिर्गच्छस्य पर्याप्तं भवति तावन्तस्तिष्ठन्ति; अथवा आचार्यादयः पञ्च तिष्ठन्ति यैर्गच्छः समस्तोऽपि सङ्गृहीतो वर्तते; अथवा यो ज्ञायते 'एष सूत्रा-ऽर्थग्रहण-धारणासमर्थोऽव्यव. च्छित्त्रिं करिष्यति' स आचार्यस्य सहायस्तिष्ठति । अथैवमपि न निस्तरन्ति ततो जघन्यतो 20 गुरुरेककस्तिष्ठति शेषाः सर्वे हिण्डन्ते । अथाऽऽचार्योऽपि कुलादिकार्येषु निर्गच्छति ततो य आचार्येण सन्दिष्टः 'मयि निर्गते सर्वमेतस्य पुरत आलोचनादि कार्यम्' स तिष्ठति । ततो. यत्र तानि बलिप्रभृतीनि पदानि स्वभावतः कैतवेन वा प्राप्तानि भवन्ति तत्र तेन वसतिपा लेनेयं यतना कर्तव्या ॥ ५६७ ॥ तत्र बलिपाते तावदाह
अप्पुव्वमतिहिकरणे, गाहा ण य अण्णभंडगं छिविमो। 25
भणइ व अठायमाणे, जं नासह तुज्झ तं उवरि ॥५६८ ॥ साधवो हि कारणेन सप्राभृतिकायामपि शय्यायां स्थिता भवेयुः । साधूनां चेयं सामाचारी-ऋतुबद्धे काले बद्ध उपधिस्तिष्ठति वर्षाखबद्धः, तत्र सप्राभृतिकायां वसतौ वर्षाखपि समस्तं भाण्डकमेकायोगं प्रकुर्वन्ति, ततो यदि वलिकाराः समागच्छन्ति तथापि न कश्चिद् दोषः । अथ ते कथमपहरणं कर्तुकामा ज्ञातव्याः ? उच्यते-अपूर्वान् दृष्ट्वा, ये खाभावि- 30 कास्ते प्रतिदिवसमागच्छन्तः परिचिताः, ये त्वपूर्वास्ते हर्तुकामा विज्ञेयाः । ये वा अतिथौ
१°णगं व जतो व हो ता० ॥ २ गाथेयं चूर्णिकृता कारणे सपाहुडि० ५६९ गाथानन्तर व्याख्याताऽस्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org