Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 193
________________ १५२ सनियुक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे [अनुयोगाधिकारः वावारेति व अण्णे, गिलाणमादीसु कजेसु ॥ ५२२ ॥ उष्णे च पात्रे दत्ते सति स वर्षादिभ्यो रक्षणार्थम् , वर्ष-वृष्टिः आदिशब्दाद् हिमप्रपातादिपरिग्रहः, श्वा-कुक्कुरस्तद्रक्षणार्थम् 'अभीक्ष्णम्' अनवरतमुपयोगं करोति । यदि वा ग्लानादिप्रयोजनेषु समापतितेष्वन्यान् साधून व्यापारयति, स तु तत्रैव रक्षयन् तिष्ठति ॥५२२॥ । अथ कियन्तः पात्रस्य लेपा दीयन्ते ? इत्याह एको ये जहनेणं, विय तिय चत्तारि पंच उक्कोसा। संजमहेउं लेवो, वजित्ता गारव विभूसं ॥ ५२३ ॥ पात्रस्य संयमहेतोर्जघन्येनैको लेपो दातव्यः, मध्यमतो द्वौ त्रयो वा, उत्कर्षतश्चत्वारः पञ्च वा वर्जयित्वा गौरवं विभूषां च । गौरवेणात्मनो महर्द्धिकत्वमननलक्षणेन विभूषया वा न लेपो 10 दातव्यः, किन्तु संयमस्फातिनिमित्तमिति ॥ ५२३ ॥ अणवटुंते तह वि उ, सव्वं अवणेत्तु तो पुणो लिंपे। तजाय सचोप्पडयं, घट्ट रएउं ततो धोवे ॥ ५२४ ॥ उत्कर्षतः पञ्चखपि लेपेषु यदि स लेपः नावतिष्ठते-न पात्रेण सह लोलीभवति 'ततः' तस्मिन्ननवतिष्ठमाने सर्व लेपमपनीय ततः पुनर्मूलतः पात्रं लिम्पेत् यथा स लेपोऽवतिष्ठते । 16 "तज्जाए"त्यादि । इह यद् अलाब्वादिपानं तैलादिना 'सचोप्पडं' सस्नेहं तत्र च धूलिः प्रभूता लमा तं लेपं घट्टकपाषाणेन घट्टयित्वा तद्गतेनैव च लेपेन भूयस्तत् पात्रं रञ्जयित्वा ततः प्रक्षालयति एष तज्जातो नाम लेपः ॥ ५२४ ॥ सम्प्रति लेपस्यैव भेदानाह तजाय-जुत्तिलेवो, दुचकलेवो य होइ नायव्वो। मुद्दियनावाबंधो, तेणगबंधो य पडिकुट्ठो ॥ ५२५ ॥ 20 त्रिविधो लेपो भवति ज्ञातव्यः, तद्यथा-तज्जातलेपो युक्तिलेपो द्विचक्रलेपश्च । द्विचक्रलेपो नाम शकटलेपः । तत्र लिप्यमानं लिप्तं वा यदि पात्रं कथमपि भङ्गमामुयात् ततोऽन्यस्याभावे मुद्रितनौबन्धेन बध्नीयात् न स्तेनकबन्धेन, यतो मुद्रितनौबन्ध एव तीर्थकरैरनुज्ञातः स्तेनकबन्धस्तु प्रतिक्रुष्टः ।। ५२५ ॥ साम्प्रतमेनामेव गाथां विवरीषुस्तज्जातलेपस्य प्राग्व्याख्यातत्वात् शेषपदव्याख्यानार्थमाह जुत्ती उ पत्थरायी, पडिकुट्ठा सा उ सन्निही काउं । _दय सुकुमाल असन्निहि, दुचकलेवो अतो इट्ठो ॥ ५२६ ॥ 'युक्तिः' पदैकदेशे पदसमुदायोपचाराद् युक्तिलेपः 'प्रस्तरादिः' प्रस्तरादिकृतः, आदिशब्दाच्छर्करा-लोहकिट्ट-केदारमृत्तिकादिपरिग्रहः, सा च युक्तिः सन्निधिरिति कृत्वा तीर्थकर गणधरैः 'प्रतिकुष्टा' निराकृता । तज्जातलेपश्च कदाचिदवाप्यते । तत एतेषु लेपेषु मध्ये शक30 टलेपः सुन्दरः, यतस्तस्मिन् सुकुमारतया पानजातयो जन्तवः स्पष्टा दृश्यन्ते, दृश्यमानेषु च तेषु दया (दयां) कत्तुं शक्यते, न च तत्र सन्निधिदोषः, अतः सुन्दरत्वात् स एव द्विचक्रलेप इष्टः ॥ ५२६ ॥ १ उ ता० ॥ २ चउरोय पंच ता० ॥ OD Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296