Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
16
भाष्यगाथाः ५३६-३९] पीठिका।
१५७ परीतेष्वनन्तरं परम्परं वा प्रतिष्ठितं गृह्णतः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तेषु गुरुकाणि । अन्ये तु ब्रुवते-प्रत्येकमिश्रेऽनन्तरं परम्परं वा प्रतिष्ठितमाददानस्य लघु रात्रिन्दिवपञ्चकम् , अनन्तमिश्रेऽनन्तरं परम्परं वा प्रतिष्ठितं गृह्णतो गुरुकमिति । तथाऽपरे—प्रत्येके सचित्तमनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघवः, परम्परप्रतिष्ठितं मासलघु; तथा प्रत्येके मिश्रेऽनन्तरप्रतिष्ठितमाददानस्य लघुको मासः, परम्परप्रतिष्ठितं गृह्णतो लघु रात्रिन्दिवपञ्चकम् ; अनन्ते। मिश्रेऽनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठिते गुरु रात्रिन्दिवपञ्चकमिति । उक्तञ्च
पुढवी आऊ तेऊ, [य] परिते चेव तह य वणकाये । चउलहु अणंतरम्मी, सच्चित्ते परंपरे मासो॥ मीसाणंतर लहुगो, लहुपणग परंपरे परितेसु । एए चेव य गुरुगा, होति अणंते पइट्ठाणे ॥
इति। 10 त्रसकायेऽनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघुकम् , परम्परप्रतिष्ठितं गृह्णतो मासलघु; "तसकाये चतुलहुगा, अणंतर परंपरहिए लहुगो" इति वचनात् ॥ ५३८ ॥ एवं षड्जीवनिकायेषु प्रत्येकेऽनन्ते मिश्रे च पृथिव्यादौ बीजे च प्रत्येकेऽनन्ते मिश्रे चानन्तरं परम्परं च प्रतिष्ठितमाददानस्य प्रायश्चित्तमिति । अधुना पिहितं संहरणं चाधिकृत्य प्रायश्चित्तमाह
एमेव य पिहियम्मी, लहुगा दवम्मि चेव अपरिणए । 'एवमेव' अनेनैव प्रकारेण पिहितेऽपि प्रायश्चित्तं वक्तव्यम् । किमुक्तं भवति :-यथा निक्षिप्ते प्रायश्चित्तमुक्तमेवं येन द्रव्येण सचित्तेनाचित्तेन मिश्रेण वाऽनन्तरं परम्परकं वा पिधीयते तत्रापि द्रष्टव्यम् , नवरमचित्तेन गुरुकेण पिहिते गृह्णतश्चतुर्गुरुकम् । संहरणे-येन मात्रकेण भिक्षा दातुकामस्तत्र यदि किञ्चित् प्रक्षिप्तं वर्तते तदन्यत्र संहृत्य ददाति तच्च संहियमाणमद्याप्यपरिणतं तस्मिन्नपरिणते द्रव्ये संहृते गृह्णतश्चत्वारो लघुकाः । दायके-प्रगलिते 20 नपुंसके चत्वारो गुरुकाः, पिञ्जन-कर्तन-लक्ष्णखण्डकरण-प्रमर्दनप्रवृत्तेषु प्रत्येक मासलघु, शेषेषु दायकदोषेषु चत्वारो लघुकाः । उन्मिश्रे-सचितानन्तमिश्रे चतुर्गुरु, मिश्रानन्तमिश्रे मासगुरु, सचित्तप्रत्येकमिश्रे चतुर्लघु, प्रत्येकमिश्रमिश्रे मासलघु ॥
वीसुम्मीसे पणगं, अणंतवीए य पणग गुरू ।। ५३९ ॥ 'विष्वगुन्मिश्रे' प्रत्येकवीजोन्मिश्रे लघु रात्रिन्दिवपञ्चकम् , अनन्तबीजोन्मिश्रे गुरु रात्रि-25 न्दिवपञ्चकम् । अपरिणते-द्रव्यापरिणते कायनिष्पन्नम् , ये कायाः प्रत्येकरूपा अनन्तरूपा वा अपरिणतास्तन्निष्पन्नमित्यर्थः। तत्र पृथिव्यादिष्वपरिणतेषु चतुर्लघुकम्, अनन्तेष्वपरिणतेषु चतुर्गुरु । उक्तञ्च
दवापरिणते चउलहु, पुढवादी चउगुरू अणंतेसु । "भावापरिणते दोण्हं तु भुजमाणाणमेगो तत्य निमंतए"दश.अ. ५.उ.१गा.३७ इत्येवंरूपे लघुको मासः, “भावा-30 परिणते लघुगो" इति वचनात् । लिप्ते-आयेषु त्रिषु भङ्गेषु चत्वारो लघुकाः, चरमभङ्गेऽनेषणायां चतुर्गुरवः । छर्दिते-आयेषु त्रिषु भङ्गेषु प्रत्येकं चतुर्लघुकम्, चरमभङ्गेऽनाचीर्णम् ॥५३९॥
१ अनन्तेऽन त० विना ॥ २ बीउम्मीसे ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296