Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 188
________________ भाष्यगाथाः ५०१-४] पीठिका। १४७ द्वितीयभङ्गेऽपि परम्परप्रतिष्ठितायां द्वे चतुर्लघुके, तृतीये भङ्गे उभयोरुभयत्र प्रतिष्ठितयोश्चत्वारि चतुर्लधुकानि, चरमे भङ्गे शुद्धः । तथा हरितेष्वनन्तेषु साधावनन्तरप्रतिष्ठिते प्रायश्चित्तं चतुर्गुरुकम् , द्वितीयेऽपि परम्परप्रतिष्ठिते चतुर्गुरु, तृतीयेऽनन्तरपरम्परप्रतिष्ठिते द्वे चतुर्गुरुके, चरमे शुद्धः । गच्यामप्यनन्तहरितेऽनन्तरप्रतिष्ठितायां चतुर्गुरु, परम्परप्रतिष्ठितायामपि चतुर्गुरु, उभयप्रतिष्ठितायां द्वे चतुर्गुरुके, चरमे शुद्धः । अनन्तहरितेषु साधौ गड्यां। चानन्तरप्रतिष्ठितायां द्वे चतुर्गुरुके, परम्परप्रतिष्ठितायामपि द्वे चतुर्गुरुके, उभयप्रतिष्ठितायां चत्वारि चतुर्गुरुकाणि, चरमे शुद्धः । तथा मिश्रेषु प्रत्येकह रितेषु साधावनन्तरप्रतिष्ठिते मासलघु, परम्परप्रतिष्ठितेऽपि मासलघु, उभयप्रतिष्ठिते द्वे मासलघुके, चरमे भङ्गे शुद्धः । गड्यामप्यनन्तरप्रतिष्ठितायां मासलघु, परम्परप्रतिष्ठितायामपि मासलघु, उभयप्रतिष्ठितायां द्वे मासलघुके, चरमे भङ्गे शुद्धः । साधौ गन्यां चाऽनन्तरप्रतिष्ठितायां द्वे मासलघुके, परम्पर-10 प्रतिष्ठितायामपि द्वे मासलघुके, उभयप्रतिष्ठितायां चत्वारि मासलघूनि, चरमे भङ्गे शुद्धः। तथा मिश्रेष्वनन्तहरितेषु साधावनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठितेऽपि मासगुरु, उभयप्रतिष्ठिते द्वे मासगुरुके, चतुर्थे शुद्धः । गड्यामपि अनन्तरप्रतिष्ठितायां मासगुरु, परम्परप्रतिष्ठितायामपि मासगुरु, उभयप्रतिष्ठितायां द्वे मासगुरुके, चरमे शुद्धः । साधौ गड्यां चानन्तरप्रतिष्ठितायां द्वे मासगुरुके, परम्परप्रतिष्ठितायामपि द्वे मासगुरुके, उभयप्रतिष्ठितायां 16 चत्वारि मासगुरुकाणि, चरमभङ्गे शुद्धः । “पणग लहु गुरुग"मिति बीजेषु प्रत्येकेषु सचित्तेषु मिश्रेषु वा प्रत्येकं साधावनन्तरप्रतिष्ठिते लघुरात्रिन्दिवपञ्चकम् , परम्परप्रतिष्ठितेऽपि लघुपञ्चकम् , उभयप्रतिष्ठिते द्वे लघुपञ्चके, चरमभङ्गे शुद्धः । तथा गन्यामनन्तरप्रतिष्ठितायां लघुपञ्चकम् , परम्परप्रतिष्ठितायामपि लघुपञ्चकम् , उभयप्रतिष्ठितायां द्वे लघुपञ्चके, चरमभङ्गे शुद्धः । साधौ गड्यां चानन्तरप्रतिष्ठितायां द्वे लघुपञ्चके, परम्परप्रतिष्ठितायामपि द्वे लघु-20 पञ्चके, उभयप्रतिष्ठितायां चत्वारि लघुपञ्चकानि, चरमभने शुद्धः । एवमनन्तेषु रात्रिन्दिवपञ्चकं गुरुकं द्रष्टव्यम् । एवं बीजे चशब्दाद्धरिते च प्रत्येके सचित्तेऽनन्ते सचित्ते मिश्रे चानन्तरे परम्परे च 'षट्सु' षट्सु भङ्गेषु यथायोगं प्रायश्चित्तमवगन्तव्यम् ॥ ५०२ ॥ इदानीं चलादिद्वारप्रतिपादनार्थमाहदव्वे भावे य चलं, दव्वम्मी दुट्टियं तु जं दुपयं । 28 आयाएँ संजमम्मि य, दुविहा उ विराहणा तत्थ ॥ ५०३ ॥ चलं नाम द्विविधम् , तद्यथा-द्रव्यतो भावतश्च । तत्र द्रव्यतश्चलं यद् 'द्विपदं' शकटं दुस्थितम् , तत्र लेपं गृढतश्चतुर्गुरुकम् । यतस्ततो द्विविधा विराधना-आत्मनि संयमे च । तत्रात्मविराधना शकटेन पतताऽभिघातसम्भवात् । संयमविराधना शकटे सञ्चाल्यमाने प्राणजात्युपमर्दनात् ॥ ५०३ ॥ 30 भावचल गंतुकामं, गोणाईअंतराइयं तत्थ । जुत्ते वि अंतरायं, वित्तसचलणे य आयाए ॥ ५०४ ॥ १त्मनि वि° कां० डे० ॥ २ जातेरुप मो० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296