________________
भाष्यगाथाः ५०१-४]
पीठिका।
१४७
द्वितीयभङ्गेऽपि परम्परप्रतिष्ठितायां द्वे चतुर्लघुके, तृतीये भङ्गे उभयोरुभयत्र प्रतिष्ठितयोश्चत्वारि चतुर्लधुकानि, चरमे भङ्गे शुद्धः । तथा हरितेष्वनन्तेषु साधावनन्तरप्रतिष्ठिते प्रायश्चित्तं चतुर्गुरुकम् , द्वितीयेऽपि परम्परप्रतिष्ठिते चतुर्गुरु, तृतीयेऽनन्तरपरम्परप्रतिष्ठिते द्वे चतुर्गुरुके, चरमे शुद्धः । गच्यामप्यनन्तहरितेऽनन्तरप्रतिष्ठितायां चतुर्गुरु, परम्परप्रतिष्ठितायामपि चतुर्गुरु, उभयप्रतिष्ठितायां द्वे चतुर्गुरुके, चरमे शुद्धः । अनन्तहरितेषु साधौ गड्यां। चानन्तरप्रतिष्ठितायां द्वे चतुर्गुरुके, परम्परप्रतिष्ठितायामपि द्वे चतुर्गुरुके, उभयप्रतिष्ठितायां चत्वारि चतुर्गुरुकाणि, चरमे शुद्धः । तथा मिश्रेषु प्रत्येकह रितेषु साधावनन्तरप्रतिष्ठिते मासलघु, परम्परप्रतिष्ठितेऽपि मासलघु, उभयप्रतिष्ठिते द्वे मासलघुके, चरमे भङ्गे शुद्धः । गड्यामप्यनन्तरप्रतिष्ठितायां मासलघु, परम्परप्रतिष्ठितायामपि मासलघु, उभयप्रतिष्ठितायां द्वे मासलघुके, चरमे भङ्गे शुद्धः । साधौ गन्यां चाऽनन्तरप्रतिष्ठितायां द्वे मासलघुके, परम्पर-10 प्रतिष्ठितायामपि द्वे मासलघुके, उभयप्रतिष्ठितायां चत्वारि मासलघूनि, चरमे भङ्गे शुद्धः। तथा मिश्रेष्वनन्तहरितेषु साधावनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठितेऽपि मासगुरु, उभयप्रतिष्ठिते द्वे मासगुरुके, चतुर्थे शुद्धः । गड्यामपि अनन्तरप्रतिष्ठितायां मासगुरु, परम्परप्रतिष्ठितायामपि मासगुरु, उभयप्रतिष्ठितायां द्वे मासगुरुके, चरमे शुद्धः । साधौ गड्यां चानन्तरप्रतिष्ठितायां द्वे मासगुरुके, परम्परप्रतिष्ठितायामपि द्वे मासगुरुके, उभयप्रतिष्ठितायां 16 चत्वारि मासगुरुकाणि, चरमभङ्गे शुद्धः । “पणग लहु गुरुग"मिति बीजेषु प्रत्येकेषु सचित्तेषु मिश्रेषु वा प्रत्येकं साधावनन्तरप्रतिष्ठिते लघुरात्रिन्दिवपञ्चकम् , परम्परप्रतिष्ठितेऽपि लघुपञ्चकम् , उभयप्रतिष्ठिते द्वे लघुपञ्चके, चरमभङ्गे शुद्धः । तथा गन्यामनन्तरप्रतिष्ठितायां लघुपञ्चकम् , परम्परप्रतिष्ठितायामपि लघुपञ्चकम् , उभयप्रतिष्ठितायां द्वे लघुपञ्चके, चरमभङ्गे शुद्धः । साधौ गड्यां चानन्तरप्रतिष्ठितायां द्वे लघुपञ्चके, परम्परप्रतिष्ठितायामपि द्वे लघु-20 पञ्चके, उभयप्रतिष्ठितायां चत्वारि लघुपञ्चकानि, चरमभने शुद्धः । एवमनन्तेषु रात्रिन्दिवपञ्चकं गुरुकं द्रष्टव्यम् । एवं बीजे चशब्दाद्धरिते च प्रत्येके सचित्तेऽनन्ते सचित्ते मिश्रे चानन्तरे परम्परे च 'षट्सु' षट्सु भङ्गेषु यथायोगं प्रायश्चित्तमवगन्तव्यम् ॥ ५०२ ॥ इदानीं चलादिद्वारप्रतिपादनार्थमाहदव्वे भावे य चलं, दव्वम्मी दुट्टियं तु जं दुपयं ।
28 आयाएँ संजमम्मि य, दुविहा उ विराहणा तत्थ ॥ ५०३ ॥ चलं नाम द्विविधम् , तद्यथा-द्रव्यतो भावतश्च । तत्र द्रव्यतश्चलं यद् 'द्विपदं' शकटं दुस्थितम् , तत्र लेपं गृढतश्चतुर्गुरुकम् । यतस्ततो द्विविधा विराधना-आत्मनि संयमे च । तत्रात्मविराधना शकटेन पतताऽभिघातसम्भवात् । संयमविराधना शकटे सञ्चाल्यमाने प्राणजात्युपमर्दनात् ॥ ५०३ ॥
30 भावचल गंतुकामं, गोणाईअंतराइयं तत्थ ।
जुत्ते वि अंतरायं, वित्तसचलणे य आयाए ॥ ५०४ ॥ १त्मनि वि° कां० डे० ॥ २ जातेरुप मो० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org