SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १४८ सनियुक्ति-माष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः भावचलं नाम 'गन्तुकाम' योज्यमानमित्यर्थः, तत्र यावद् लेपो गृह्यते तावद् बलीवर्दानां चारि-पानीयनिरोधनम् , आदिशब्दान्मनुष्याणामप्यन्तरायम् । ततो भावचलेऽपि लेपं गृह्णतश्चत्वारो लघुकाः । गतं चलद्वारम् । अधुना युक्तद्वारमाह-"जुत्ते वी"त्यादि, युक्तं नामयोक्रितबलीबदं तत् स्थापयित्वा यदि लेपं गृह्णाति ततः प्रायश्चित्तं चत्वारो गुरुकाः, यतस्तत्रापि 6 स एवान्तरायदोषः । अन्यश्वायम्-ते बलीवर्दा वित्रस्येयुः, तत्र गच्या चलन्त्या चरणाक्रमणे आत्मविराधना, संयमविराधना त्रसादिनिपातः ॥ ५०४ ॥ सम्प्रति वत्सद्वारं श्वद्वारं चाह वच्छो भएण नासति, भंडिक्खोमे य आयवावत्ती । आया पवयण साणे, काया य भएण नासते ॥ ५०५ ॥ यत्र शकटे वत्सो बद्धः श्वा वा यस्याधस्तात् तिष्ठति बद्धो वा वर्तते, तत्र वत्से लेपं गृहतश्च10त्वारो लघुकाः शुनि चत्वारो गुरुकाः, यतो वत्सो भयेन नश्यति, तस्मिंश्च नश्यति गड्याः 'क्षोमे चलने आत्मव्यापत्तिः, तथा श्वा समागच्छन्तमपूर्व दृष्ट्वा दशति तत्रात्मोपघातः, शुना लीढं लेपममी गृहन्तीति प्रवचनोपघातः, भयेन नश्यति शुनि 'कायाः' पृथिवीकायादयो विनाशमापद्यन्ते ततः संयमोपघातश्च ॥ ५०५ ।। सम्प्रति जलस्थितद्वारं पृथिवीस्थितद्वारं चाह15 जो चेव य हरिएसुं, सो चेव गमो उ उदग पुढवीए । ___ य एव गमः प्राग् हरितेषूक्तः स एवोदके पृथिव्यां च वेदितव्यः । इयमत्र भावना-सचिचे उदके साधुरनन्तरप्रतिष्ठितो न परम्परप्रतिष्ठित इत्यादि चतुर्भङ्गी, गभ्यामप्येवं चतुर्भङ्गी, उभयोरपि चतुर्भङ्गी, तदेवं चतुर्भङ्गीत्रयं सचित्ताप्काये । एवं मिश्राप्कायेऽपि चतुर्भङ्गीत्रयमवसातव्यम् । उभयमीलने चतुर्भङ्गीषट्कम् । एवं चतुर्भङ्गीषट्कं पृथिवीकायेऽपि भावनी20 यम् । तत्र सचित्तेऽप्काये साधावनन्तरप्रतिष्ठिते प्रायश्चित्तं चतुर्लघु, परम्परप्रतिष्ठितेऽपि चतुलघु, उभयप्रतिष्ठिते द्वे चतुर्लघुके, चरमभङ्गे शुद्धः । गळ्यामप्यनन्तरप्रतिष्ठितायां चतुर्लघु, परम्परप्रतिष्ठितायामपि चतुर्लघु, उभयप्रतिष्ठितायां द्वे चतुर्लघुके, चरमे शुद्धः । साधु-गज्योरनन्तरप्रतिष्ठितयोढे चतुर्लधुके, परम्परप्रतिष्ठितयोरपि द्वे चतुर्लघुके, उभयोरुभयत्र प्रतिष्ठितयोश्चत्वारि चतुर्लघुकानि, चरमभने शुद्धः । मिश्रेऽप्काये साधावनन्तरप्रतिष्ठिते मासलघु, पर25 म्परप्रतिष्ठितेऽपि मासलघु, उभयप्रतिष्ठिते द्वे मासलघुके, चरमे शुद्धः । एवं गड्यामपि भन चतुष्टये वक्तव्यम् । साधु-गब्योरनन्तरप्रतिष्ठितयोढे मासलघुके, परम्परप्रतिष्ठितयोरपि द्वे मासलघुके, उभयोरुभयत्र प्रतिष्ठितयोश्चत्वारि मासलघुकानि, चरमभङ्गे शुद्धः । एवं पृथिवीकायेऽपि चतुर्भङ्गीषट्के प्रायश्चित्तमवगन्तव्यम् ॥ सम्प्रति सम्पातिमद्वारं श्यामाद्वारं चाह संपाइमा तसगणा, सामाए होइ चउभंगो ॥ ५०६॥ 30 "संपातिमा" इत्यादि । अथ के नाम सम्पातिमा येषु पतत्सु लेपो न गृह्यते ?, किं त्रसाः स्थावरा वा ? तत्राह–सम्पातिमास्त्रसगणा न स्थावराः । तेषु सम्पातिमेषु पतत्सु यदि लेपं गृहाति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । श्यामा-रात्रिस्तत्र चतुर्भङ्गी, तद्यथा-रात्रौ लेपं गृहाति रात्रावेव च भाजनस्य लेपं ददाति, अत्र प्रायश्चित्तं चत्वारो लघुकास्तपसा कालेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy