SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५०५-११] पीठिका । १४९ च गुरवः, रात्रौ लेपं गृहीत्वा दिवसे भाजनस्य ददाति चत्वारो लघुकास्तपोगुरुकाः काललघवः, दिवसे लेपं गृहीत्वा रात्रौ भाजनस्य ददाति चत्वारो लघुकास्तपोलघवः कालगुरुकाः, दिवसे गृहीत्वा दिवस एव ददाति शुद्धः ॥ ५०६ ॥ महावातादिद्वारत्रयमाह वायम्मि वायमाणे, महियाए चेव पवडमाणीए।। नाणुण्णायं गहणं, अमियस्स य मा विगिंचणया ॥ ५०७॥ 'वाते' महावाते वाति तथा महिकायां प्रपतन्त्यां लेपस्य ग्रहणं नानुज्ञातं तीर्थकर-गणधरैः, महावाते वाति तदुद्धृतानां त्रस-स्थावराणां लेपसम्पर्कतो विनाशसम्भवात् महिकायां निपतन्त्यामप्कायविराधनात् । तथा अमितस्यापि लेपस्य ग्रहणं नानुज्ञातम् , मा भूद् 'विवेचनिका' परिष्ठापनिकेति कृत्वा । तत्र महावाते वाति लेपं गृहतः प्रायश्चितं चतुर्लधु । महिकायामपि निपतन्त्यां चतुर्लघु । अमितग्रहणे मासलघु ॥ ५०७ ॥ 10 एतदेव प्रायश्चित्तं प्रतिपादयन्नाह चल-जुत्त-वच्छ-महिया-तसेसु सामाएँ चेव चतुलहुगा। . दवचल साण गुरुगा, मासो लहुओ उ अमियम्मि ॥ ५०८॥ भावतश्चले बलीवर्दयुक्ते वत्से निबद्धे तथा महिकायां निपतन्त्यां त्रसेषु सम्पातिमेषु निपतत्सु श्यामायां च लेपं गृह्णतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । द्रव्यचले शुनि वा15 स्थिते चत्वारो गुरुकाः । अमिते गृहीते लघुको मासः । विशेषभावना तु प्रतिद्वारं प्रागेव कृता ॥ ५०८॥ एतद्दोसविमुकं, घेत्तुं छारेण अक्कमित्ताणं । चीरेण बंधिऊणं, गुरुमूल पडिकमाऽऽलोए ॥ ५०९॥ ये एते हरितादयोऽनन्तरं दोषा उक्तास्तैर्मुक्तं लेपं गृहीत्वा मा सम्पातिमानां वधो १० भूयात्' [इति ] तं 'क्षारेण' भसना आक्रम्य चीवरेण बद्धा गुरुपादमूलमागच्छति, आगम्य चैर्यापथिकी प्रतिक्रम्यालोचयति ॥ ५०९ ॥ दंसिय छंदिय गुरु सेसए य ओमत्थियस्स भाणस्स । काउं चीरं उवरिं, रूयं च छुमेज तो लेवं ॥५१०॥ आलोच्य लेपं गुरोर्दर्शयति । दर्शयित्वा गुरुं लेपेन 'छन्दयति' निमन्त्रयति । गुरुनिम-25 प्रणानन्तरं शेषकानपि साधून निमन्त्रयति । ततो यावता यस्यार्थस्तस्य तावन्तं दत्त्वा एकस्य भाजनस्य 'अवमन्थितस्य' अवाङ्मुखीकृतस्योपरि चीवरं कृत्वा तत्र लेपं रूतंच प्रक्षिपेत् ॥५१०॥ सम्प्रति लेपदानविधिमाह अंगुट्ट-पएसिणि-मज्झिमाहिं घेत्तुं घणं ततो चीरं ।। आलिंपिऊण भाणं, एकं दो तिन्नि वा घट्टे ॥ ५११ ॥ अङ्गुष्ठेन प्रदेशिन्या मध्यमया चाङ्गुल्या लेपं गृहीत्वा घनं च चीवरमादाय तत्र ले प्रक्षिप्य निष्पीडयेत् , निष्पीड्य च एकैकभाजनमेकं द्वौ त्रीन् वा वारान् लेपयेत् । अधिकं १रेणिवं ता० ॥ २ तु तं ची ता० ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy