________________
१४६
सनियुक्ति-भाष्य-वृत्तिके वृहत्कल्पसूत्रे (अनुयोगाधिकारः तथा शकटेन सह बद्धे वत्से, शकटस्याधः स्थिते शुनि वा, तथा जलस्योपरि स्थिते, पृथिव्यां वा-सचित्तपृथिवीकायस्योपरि प्रतिष्ठिते शकटे, तथा सम्पातिमेषु-त्रसगणेषु सत्सु, तथा 'श्यामा' रात्रिस्तस्याम् , महावाते वा वाति, महिकायां निपतन्त्यां लेपग्रहणं नानुज्ञातम् । नाप्यमितस्य लेपस्य ग्रहणम् । एष द्वारगाथासङ्केपार्थः । व्यासार्थस्तु प्रतिद्वारं वक्ष्यते ॥५००॥ । तत्र यद्यप्यनन्तरं प्रायश्चित्तगाथाद्वयं तथापि नाव्याख्यातेपु द्वारेषु तद् व्याख्यातुं शक्यमिति प्रथमतो द्वाराणि व्याख्यायन्ते । तत्र हरितद्वारं बीजद्वारं चाधिकृत्याह
हरिए वीऍ पतिट्ठिय, अणंतर परंपरे य बोधव्वे ।
परिताणते य तहा, चउभंगो होति नायव्यो ॥५०१॥ हरिते वीजे च साधौ शकटे वा अनन्तरं परम्परके वा प्रतिष्ठिते प्रत्येकं चतुर्भङ्गी भवति 10 ज्ञातव्या । गाथायां पुंस्त्वं प्राकृतत्वात् । तथा हरिते बीजे च प्रत्येकं परीत्तेऽनन्ते च साधौ
शकटे वाऽनन्तर-परम्परप्रतिष्ठिते प्रत्येकं चतुर्भङ्गी । इयमत्र भावना-हरितेषु साधुरनन्तरप्र. तिष्ठितो नो परम्परप्रतिष्ठितः १ परम्परप्रतिष्ठितो नानन्तरप्रतिष्ठितः २ अनन्तरप्रतिष्ठितोऽपि परम्परप्रतिष्ठितोऽपि ३ नानन्तरप्रतिष्ठितो नापि परम्परप्रतिष्ठितः ४ । एवं बीजेष्वपि साधुमधिकृत्य चतुर्भङ्गी । एवं गन्त्रीमप्यधिकृत्य हरितेपु बीजेषु च प्रत्येकं चतुर्भङ्गी द्रष्टव्या-हरि15 तेष्वनन्तरं प्रतिष्ठिता गन्त्री नो परम्परप्रतिष्ठिता इत्यादि । एवं सर्वसङ्कलनया चतुर्भङ्गीचतुष्टयं जातम् । चतुर्भङ्गीद्विकं तु साधु-गन्त्रीसंयोगतो द्रष्टव्यम् । तद्यथा-हरितेषु साधुर्गन्त्री वाऽनन्तरप्रतिष्ठिता नो परम्परप्रतिष्ठिता इत्यादि भङ्गचतुष्टयं प्राग्वत् । एवं बीजेष्वपि । सर्वसयया षट् चतुर्भङ्गयः । एतच्च चतुर्भङ्गीषट्कं किल प्रत्येकेषु हरित-बीजेपूक्तम् । एवमनन्तेप्वपि द्रष्टव्यम् । एवं मिश्रेष्वपि ॥ ५०१ ॥ साम्प्रतमत्रैव प्रायश्चित्तमुच्यते20 चउरो लहुगा गुरुगा, मासो लहु गुरु य पणग लहु गुरुयं ।
छसु परितऽणंत मीसे, बीजे य अणंतर परे य ॥ ५०२ ॥ हरिते चशब्दसंसूचिते प्रत्येकेऽनन्तर-परम्परभेदतस्त्रिष्वायेषु भनेषु चत्वारो लघुका वक्तव्याः । इयमत्र भावना प्रत्येकेषु हरितेषु साधावनन्तरप्रतिष्ठिते प्रथमे भने प्रायश्चित्तं
चतुर्लघु, द्वितीये परम्परप्रतिष्ठिते चतुर्लघु, तृतीये भङ्गेऽनन्तरपरम्परप्रतिष्ठिते द्वे चतुर्लघुके, 25 चरमे भङ्गे शुद्धः । तथा प्रत्येकहरितेषु साधौ गन्यां चानन्तरप्रतिष्ठितायां द्वे चतुर्लघुनी, १ गाथेयं चूर्णिकृता इत्थंरूपा खीकृताऽस्ति
हरिते बीएसु तहा, अणंतर परंपरे य विचउक्के।
आता दुपदं च पयट्टितं तु पत्थं तु चउभंगो ॥ चूर्णिः-हरिते. गाधा । हरितेसु साधू अणंतरपतिट्ठिओ णो परंपरपतिहितो वा चउभंगो । एवं बीएसु विचउभंगो। हरितेसु भंडी अणंतरपतिहिता णो परंपरपतिट्टिता चउभंगो। एवं बीएसु वि चउभंगो। बिचउक त्ति साधुम्मि हरितेसु एगो चउभंगो, बितिओ बीएसु । एवं भंडीए वि दो चउभंगा भणिता । आता दुपतं च पतिद्वितं तु एत्थं तु (पतिट्टितं ति एत्थं पि प्र०) चउभंगो । दो इति वाक्यशेषः । आय त्ति साधू । हरितेस साध भंडी य अणंतरपतिट्टिताणि णो परंपरपतिहिताणि चउभंगो। एवं बीएसु वि चउभंगो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org