________________
भाष्यगाथाः १९१-५००] पीठिका ।
१४५ सम्प्रति यदधस्ताद् भणितं "सागारिय" (गा० ४८२) ति तयाख्यानार्थमाह
वच्चंतेण य दिहूं, सागारिदचकगं तु अब्भासे ।।
तत्थेव होइ गहणं, न होति सो सागरियपिंडो॥ ४९६ ॥ तेन गृहीतरूत-मल्लक-क्षारेण बजता यदि सागारिकस्य-शय्यातरस्य द्विचक्रकं-शकटम् 'अभ्यासे' निकटे प्रदेशे दृष्टम् ततस्तत्रैव तस्य लेपग्रहणं भवति । यतः स न भवति सागा-6 रिकपिण्ड इति ॥ ४९६ ॥ सम्प्रति प्रभुद्वारमाह
गंतुं दुचकमूलं, अणुण्ण विजा पडं तु साहीणं । एत्थ य पभु त्ति भणिए, कोई गच्छे निवसमीवं ॥ ४९७ ॥ किं देमि त्ति नरवई, तुभं खरमक्खिया दुचकि त्ति ।
सो य पसत्थो लेवो, एत्थ य भद्देयरे दोसा ॥ ४९८॥ गत्वा द्विचक्रमूलं शकटस्य 'खाधीनं' प्रत्यासन्नं प्रभुमनुज्ञापयेत् , अननुज्ञापने प्रायश्चित्तं मासलघु, तस्मात् प्रायश्चित्तभीरुणा नियमतः प्रभोरनुज्ञापना कर्तव्या । अत्र प्रभुरित्युक्ते कश्चिच्चिन्तयति-राजानं मुक्त्वा कोऽन्यः प्रभुः ? इति राजाऽनुज्ञापनीय उक्तः, एवं चिन्तयित्वा नृपसमीपं गच्छेत् , गत्वा च तं राजानं धर्मलाभयेत् ॥ ४९७ ॥ ___ तत्र स नरपति—यात्-किं ददामि। साधुर्वदति-युष्माकं 'द्विचक्राणि' शकटानि खरेण-16 तैलेन प्रक्षितानि सन्ति, तत्र च यो लेपः स प्रशस्त इति तमनुजानीत । अत्र 'भद्रेतरदोषाः' भद्रकदोषाः प्रान्तदोषाश्च । तत्र भद्रकदोषा इमे-स राजाऽनुज्ञापितः सन् ब्रूयाद्-अहो ! निर्ममत्वा भगवन्त एतदप्ययाचितं न गृहन्ति, ततः स आज्ञापयेत्-यानि कानिचिन्मम विषये शकटानि तानि सर्वाण्यपि तैलेन म्रक्षणीयानि । प्रान्तः पुनरेवं चिन्तयेत्-अहो। अमी अशुचयो यदेतन्मा याचन्ते, नूनं सर्वमिदं नगरममीभिर्धर्षयितव्यमिति प्रद्वेषं यायात् , प्रद्विष्टश्च 20 घोषापयेत् , यथा-मम राज्ये न कोऽपि शकटं तैलेन म्रक्षयेत् किन्तु घृतेनान्येन वा ॥ ४९८॥
तम्हा दुचक्कपतिणा, तस्संदिद्वेण वा अणुण्णाते ।
कटुगंधजाणणट्ठा, जिंघे नासं अघट्टतो ॥ ४९९ ॥ यस्मादेवं भद्रक-प्रान्तदोषास्तस्माद्राजा नानुज्ञापयितव्यः । कोऽनुज्ञापयितव्यः ? इति चेद् उच्यते-यस्तस्य द्विचक्रस्य-शकटस्य पतिः-स्वामी यो वा तेन-शकटपतिना सन्दिष्टः, तेन 25 द्विचक्रपतिना तत्सन्दिष्टेन वाऽनुज्ञाते तैलस्य किल कटुको गन्ध इति 'कटुगन्धज्ञानार्थ' कटुगन्धोऽस्ति न वेति परिज्ञानार्थ नासाम् 'अघट्टयन्' असंस्पृशन् तं लेपं दूरस्थो जिप्रति । माते च यदि कटुको गन्धः समायाति ततस्तैललेप इति कृत्वा तं समादते ॥ ४९९ ॥ सम्प्रति “छक्कायजयणाए" (गा० ४८२) इति व्याख्यानयति
हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए।
पुढवी संपातिमा सामा, महावाते महियाऽमिते ॥ ५००॥ हरिते बीजे वा साधौ शकटे वा प्रतिष्ठिते, तथा चले बलीवर्दाभ्यां युक्ते वा शकटे, १°णातो ता०॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org