SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 10 सनियुक्ति-भाप्य-वृत्तिके बृहत्कल्पसूत्रे -[ अनुयोगाधिकारः ___ श्रमणी गौरवपारेवर्जिता गणिन्याः पुरत आलोचनां प्रयुक्ते। व? इत्याह-एकान्तेऽनापाते 'एका' अद्वितीया 'एकस्याः' अद्वितीयाया गणिन्या निश्रया । ततो गुरुसमीपे श्रमणस्येव श्रमण्या अपि गणिन्याः पुरत आलोचयन्त्याश्चतुष्कर्णा पर्षद् भवति ॥ ३९४ ॥ षटकर्णामाह आलोयणं पउंजइ, एगते बहुजणस्स संलोए । अब्बितियथेरगुरुणो, संविईया भिक्खुणी निहुया ॥ ३९५ ॥ अद्वितीयस्थविरगुरुसमीपे सद्वितीया भिक्षुकी 'निभृता' निर्व्यापारा न दिशो नापि विदिश आलोकयति, .नापि यत्किञ्चिदुल्लापयतीत्यर्थः । एवम्भूता सती एकान्ते बहुजनस्य संलोके आलोचनां प्रयुते ॥ ३९५ ॥ अथ कीदृशी तस्या द्वितीया भवति ? इत्यत आह नाण-दंसणसंपन्ना, पोढा वयस परिणया । . इंगियागारसंपन्ना, भणिया तीसे विइजिया ॥ ३९६ ॥ ज्ञान-दर्शनसम्पन्ना 'प्रौढा' समर्था या संयतस्य तस्या वा भावं विज्ञाय न मन्त्रणं कर्तुं ददाति, किन्तु वदति यद्यालोचितं तर्हि व्रजामो नो चेदालोचनयाऽपि न प्रयोजनमिति । तथा 'वयसा परिणता' परिणतवयाः । तथा 'इङ्गिताकारसम्पन्ना' इङ्गितेनाऽऽकारेण च यस्य 15 यादृशो भावस्तस्य तं जानातीत्यर्थः । एवम्भूता सा तस्या द्वितीया भणिता । सा पुनः किय ह्रे तिष्ठति ? उच्यते--एके सूरयो वदन्ति-यत्रोभयोराकारा दृश्यन्ते तावन्मात्रे । अपरे ब्रुवते यत्र श्रवणं शब्दस्येति ॥ ३९६ ॥ अष्टकर्णामाह--- आलोयणं पउंजइ, एगंते बहुजणस्स संलोए । सब्बितियतरुणगुरुणो, सबिइया भिक्खुणी निहुया ॥ ३९७ ॥ 20 एकान्ते बहुजनस्य संलोके सद्वितीयस्य तरुणगुरोः समीपे सद्वितीया भिक्षुकी निभृता आलोचनां प्रयुक्ते । तत्र भिक्षुक्या यादृशी द्वितीया तादृशी प्रागुक्ता ॥ ३९७ ।। सम्प्रति यादृश आचार्यस्य द्वितीयस्तादृशमाह-- नाणेण दंसणेण य, चरित्त-तव-विणय-आलयगुणेहिं । वयपरिणामेण य अभिगमेण इयरो हवइ जुत्तो ।। ३९८ ॥ 25 ज्ञानेन दर्शनेन चारित्रेण तपसा विनयेन 'आलयगुणैः' बहिश्चेष्टाभिः प्रतिलेखनादिभिरुपशमगुणेन च तथा वयःपरिणामेन 'अभिगमेन' सम्यकशास्त्रार्थकौशलेन युक्तो भवति आचार्यस्य 'इतरः' द्वितीयः ॥ ३९८ ॥ . उक्ता पञ्चप्रकाराऽपि पर्षद् । सम्प्रति 'कयाऽधिकारः ?" इति प्रतिपादयति छत्तंतियाएँ पगयं, जइ पुण सा होजिमेहि उववेया । . तो देति जेहिं पगयं, तदभावे ठाणमादीणि ॥ ३९९ ॥ अत्र च्छत्रान्तिकया पर्षदा 'प्रकृतम्' अधिकारः । शेषाः पर्पद उच्चरितसदृशा इति प्ररूपिताः । तत्र यदि सा छत्रान्तिका पर्षद 'एभिः' वक्ष्यमाणैर्गुणैरुपेता भवति तदा यकाभ्या १ सब्बितिया ता०॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy