________________
११५
भाष्यगाथाः ३८५-९४ ]
पीठिका। वितहं ववहरमाणं, सत्थेण वियाणतो निहोडेइ ।
अम्हं सपक्खदंडो, ने चेरिसो दिक्खिए दंडो॥ ३९० ॥ राजादि वितथं व्यवहरन्तं मन्त्रिपर्षदन्तर्गतो 'विज्ञायकः' स्वसमय-परसमयशास्त्रकुशलः शास्त्रेण 'निहेठयति' सुखं वारयति, यथा-अस्माकं सपक्षे दण्डो भवति सङ्घो दण्डं करोतीत्यर्थः, न च राजा प्रभवति, नापि प्रपन्नदीक्षाकस्यैतादृशो दण्डः । एषा मन्त्रिपर्षत् ॥ ३९० ॥5 सम्प्रति राहस्थिकी पर्षदमाह
सल्लद्धरणे समणस्स चाउकण्णा रहस्सिया परिसा ।
अजाणं चउकण्णा, छक्कण्णा अटकण्णा वा ॥ ३९१॥ द्विविधं शल्यम्-द्रव्यशल्यं भावशल्यं च । द्रव्यशल्यं कण्टकादि । भावशल्यं मायानिदान-मिथ्यात्वानि, अथवा भावशल्यं मूलोत्तरगुणातिचारः । ततः श्रमणस्य भावशल्योद्ध-10 रणे आचार्यसमीपे आलोचयत इत्यर्थः राहस्यिकी पर्षद् भवति । कथम्भूता ? इत्यत आह'चतुष्कर्णा' द्वावाचार्यस्य द्वौ साधोरिति चत्वारः कर्णा यत्र सा । तथा आर्याणां चतुष्कर्णा षट्कर्णा वा । तत्र यदा निम्रन्थी निर्ग्रन्थ्याः पुरत आलोचयति तदा चतुष्कर्णा, यथा निम्रन्थस्य निर्ग्रन्थपार्थे आलोचयतः । यदा त्वद्वितीयस्थविरगुरुसमीपे आलोचयति सद्वितीया भिक्षुकी तदा षट्कर्णा । सद्वितीयतरुणगुरुसमीपे सद्वितीयाभिक्षुक्या आलोचयन्त्या अष्ट-15 कर्णा ॥ ३९१ ॥ तत्र प्रथमतः संयतस्य चतुष्कर्णां भावयति--
आलोयणं पउंजइ, गारवपरिवजितो गुरुसगासे ।
एगतमणावाए, एगो एगस्स निस्साए ॥ ३९२ ॥ एकान्ते अनापाते 'एकः' अद्वितीयः 'एकस्य' अद्वितीयस्याचार्यस्य 'निश्रया' तत्पुरत इत्यर्थः 'गौरवपरिवर्जितः' ऋद्धि-रस-सातगौरवपरित्यक्तः, गौरवाद्धि सम्यगालोचयितव्यं न 20 भवतीति तत्प्रतिषेधः, 'गुरुसमीपे' आलोचनार्हाचार्यसमीपे आलोचनां प्रयुङ्क्ते ॥ ३९२ ॥ . कथम् ? इत्याह
विरहम्मि दिसाभिग्गह, उकुडुतो पंजली निसेजा वा ।
एस सपक्खे परपक्खे मोत्तु छण्णं निसिज्जं च ॥ ३९३ ॥ एकान्तेऽपि यत्र कोऽपि न तिष्ठति तत्र 'विरहे' छन्ने प्रदेशे पूर्वं गुरोर्निषद्यां कृत्वा पूर्वा-35 मुत्तरां चरन्तिकां वा दिशमभिगृह्य वन्दनकं दत्त्वा उत्कुटुकः प्रबद्धाञ्जलिः अथाऽसौ व्याधिमान् प्रभूतं चाऽऽलोचनीयं ततो निषद्यामनुज्ञाप्यालोचयति । एष सपक्षे आलोचनाविधिः । 'परपक्षे नाम संयती तत्र च्छन्नं मुक्त्वा आलोचना दातव्या, निषद्या च न कार्यते । इयमत्र भावना-यदा संयती संयतस्य पुरत आलोचयति तदा छन्नं वर्जयति, किन्तु यत्र लोकस्य संलोकस्तत्राऽऽलोचयति, निषद्यां चाऽऽचार्यस्य न करोति, आत्मनाऽप्युत्थिता आलो-30 चयति ॥ ३९३ ॥ श्रमणीमधिकृत्यालोचनाविधेश्चतुष्कर्णत्वमाह
आलोयणं पउंजइ, गारवपरिवजिया उ गणिणीए । एगंतमणावाए, एगा एगाएँ निस्साए ॥ ३९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org