Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
भाष्यगाथाः ४८४-९०]
पीठिका।
१४३
10
'एवमपि' हस्ते धृत्वा पात्रलेपस्य शोषणेऽपि 'हुः' निश्चितमुपघातः आत्मनः संयमस्य प्रवचनस्य च । तत्राऽऽत्मोपघातो मूर्च्छया आदिशब्दात् पात्रभारेण च प्रतिपतति वेदितव्यः । संयमोपघातः षट्कायानामुपरि पतनात् । प्रवचनोपघातः पतन्तं दृष्ट्वा लोको ब्रूयात् 'दुर्दृष्टधर्माणोऽमी' इति । उक्तञ्च
कायाणमुवरि पडणे, आयाए संजमे पवयणे य । उण्हेण व भारेण व, मुच्छा पवडंति आयाए । कायोवरि पवडते, अह होही संजमे विराहणया ।
पवयणे अदिट्टधम्मा, पडंत दटुं वए लोगो ॥ यस्मादेते दोषास्तस्मान्न हस्ते पात्रं शोषयितव्यम् । अत्र सर्वत्र नोदकस्यैवं ब्रुवतो यथाच्छन्द इति कृत्वा चतुर्गुरुकं प्रायश्चित्तम् ॥ ४८७ ॥ एवमाचार्यों नोदकं प्रतिहत्य साम्प्रतमात्मना यतनासामाचारीमाह
दुविहा य होंति पाता, जुण्णा य नवा य जे उ लिप्पंति ।
जुण्णे दाएऊणं, लिंपति पुच्छा य इयरेसिं ॥ ४८८ ॥ यानि पात्राणि लिप्यन्ते तानि द्विविधानि भवन्ति । तद्यथा-जीर्णानि नवानि च । तत्र यानि जीर्णानि तानि नियमत आचार्याणां दर्शनीयानि, यथा-ईदृशो लेपः क्षमाश्रमणाः! 15 पात्राणामतनो वर्तते ततः सम्प्रति लिम्पामि न वा । तत्रैवं दर्शयित्वा यद्यनुज्ञा जाता ततस्तानि जीर्णानि लिम्पति नेतरथा । अदर्शयित्वा लेपने प्रायश्चित्तं मासलघु । यानि पुनर्नवानि तान्यवश्यं लेपनीयानीति कृत्वा आचार्यस्यापृच्छयाऽपि तेषाम् ‘इतरेषां' नवानां लेपनं कर्तव्यम् ॥ ४८८ ॥ अथ जीर्णानामदर्शने को दोषः ? इत्यत आह
पाडिच्छग-सेहाणं, नाऊणं कोइ आगमण मायी। दढलेवे वि उ पाए, लिंपति मा तेसि दिजिज्जा ॥ ४८९ ॥ अहवा वि विभूसाए, लिपति जा सेसगाण परिहाणी।
अपडिच्छणे य दोसा, सेहे काएँ यतोऽदाए ॥ ४९०॥ कश्चिन्मायी शिष्याणां प्रातीच्छिकानां चाऽऽगमनं ज्ञात्वा ‘मा तेषां दद्याद्' इति कृत्वा दृढलेपान्यपि पात्राणि भूयो लिम्पति ॥ ४८९ ॥
25 अथवा 'न शोभनोऽग्रेतनो लेपः' इति विभूषानिमित्तमजीर्णलेपमपि पात्रं भूयः कोऽपि लिम्पति । एवं मायया विभूषानिमित्तं वा भाजनेषु तेषु लिप्तेपु या 'शेषकाणां' साधूनां प्रातीच्छिकानां शिष्याणां च परिहाणिस्तां स मायी विभूषार्थी वा प्राप्नोति । तमेव दर्शयति"अपडिच्छणे य" इत्यादि । केचित् प्रातीच्छिकाः समागतास्तद्योग्यानि च पात्राणि न सन्ति लिप्तानि तिष्ठन्तीति कृत्वा, तत एवं पार्विना तेषां प्रातीच्छिकानामप्रतीच्छने ज्ञान-दर्शन- 30 चारित्रपरिहाणिः । "सेहे काए"त्ति तथा शैक्षः कश्चिदुपस्थितोऽथ च भाजनं न विद्यते
१ जुण्ण नवा चेव जे उ ता० ॥ २ °गर्म मा ता० ॥ ३ °ए अतो मो० विना ॥ ४ योऽपि लि° डे. कां.॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296