SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४८४-९०] पीठिका। १४३ 10 'एवमपि' हस्ते धृत्वा पात्रलेपस्य शोषणेऽपि 'हुः' निश्चितमुपघातः आत्मनः संयमस्य प्रवचनस्य च । तत्राऽऽत्मोपघातो मूर्च्छया आदिशब्दात् पात्रभारेण च प्रतिपतति वेदितव्यः । संयमोपघातः षट्कायानामुपरि पतनात् । प्रवचनोपघातः पतन्तं दृष्ट्वा लोको ब्रूयात् 'दुर्दृष्टधर्माणोऽमी' इति । उक्तञ्च कायाणमुवरि पडणे, आयाए संजमे पवयणे य । उण्हेण व भारेण व, मुच्छा पवडंति आयाए । कायोवरि पवडते, अह होही संजमे विराहणया । पवयणे अदिट्टधम्मा, पडंत दटुं वए लोगो ॥ यस्मादेते दोषास्तस्मान्न हस्ते पात्रं शोषयितव्यम् । अत्र सर्वत्र नोदकस्यैवं ब्रुवतो यथाच्छन्द इति कृत्वा चतुर्गुरुकं प्रायश्चित्तम् ॥ ४८७ ॥ एवमाचार्यों नोदकं प्रतिहत्य साम्प्रतमात्मना यतनासामाचारीमाह दुविहा य होंति पाता, जुण्णा य नवा य जे उ लिप्पंति । जुण्णे दाएऊणं, लिंपति पुच्छा य इयरेसिं ॥ ४८८ ॥ यानि पात्राणि लिप्यन्ते तानि द्विविधानि भवन्ति । तद्यथा-जीर्णानि नवानि च । तत्र यानि जीर्णानि तानि नियमत आचार्याणां दर्शनीयानि, यथा-ईदृशो लेपः क्षमाश्रमणाः! 15 पात्राणामतनो वर्तते ततः सम्प्रति लिम्पामि न वा । तत्रैवं दर्शयित्वा यद्यनुज्ञा जाता ततस्तानि जीर्णानि लिम्पति नेतरथा । अदर्शयित्वा लेपने प्रायश्चित्तं मासलघु । यानि पुनर्नवानि तान्यवश्यं लेपनीयानीति कृत्वा आचार्यस्यापृच्छयाऽपि तेषाम् ‘इतरेषां' नवानां लेपनं कर्तव्यम् ॥ ४८८ ॥ अथ जीर्णानामदर्शने को दोषः ? इत्यत आह पाडिच्छग-सेहाणं, नाऊणं कोइ आगमण मायी। दढलेवे वि उ पाए, लिंपति मा तेसि दिजिज्जा ॥ ४८९ ॥ अहवा वि विभूसाए, लिपति जा सेसगाण परिहाणी। अपडिच्छणे य दोसा, सेहे काएँ यतोऽदाए ॥ ४९०॥ कश्चिन्मायी शिष्याणां प्रातीच्छिकानां चाऽऽगमनं ज्ञात्वा ‘मा तेषां दद्याद्' इति कृत्वा दृढलेपान्यपि पात्राणि भूयो लिम्पति ॥ ४८९ ॥ 25 अथवा 'न शोभनोऽग्रेतनो लेपः' इति विभूषानिमित्तमजीर्णलेपमपि पात्रं भूयः कोऽपि लिम्पति । एवं मायया विभूषानिमित्तं वा भाजनेषु तेषु लिप्तेपु या 'शेषकाणां' साधूनां प्रातीच्छिकानां शिष्याणां च परिहाणिस्तां स मायी विभूषार्थी वा प्राप्नोति । तमेव दर्शयति"अपडिच्छणे य" इत्यादि । केचित् प्रातीच्छिकाः समागतास्तद्योग्यानि च पात्राणि न सन्ति लिप्तानि तिष्ठन्तीति कृत्वा, तत एवं पार्विना तेषां प्रातीच्छिकानामप्रतीच्छने ज्ञान-दर्शन- 30 चारित्रपरिहाणिः । "सेहे काए"त्ति तथा शैक्षः कश्चिदुपस्थितोऽथ च भाजनं न विद्यते १ जुण्ण नवा चेव जे उ ता० ॥ २ °गर्म मा ता० ॥ ३ °ए अतो मो० विना ॥ ४ योऽपि लि° डे. कां.॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy