________________
१४२
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः तिमानां च जीवानां तत्र पतितानामुपघातः, स च कदाचिदधिको लेपो गृहीतो भवेत् ततस्तस्मिन्नधिके गृहीते 'उत्सर्गः' परिष्ठापनिकादोषः सम्पद्यते । उक्तञ्च
भारे हत्थुवघातो, तत्थ य संपादिणो पडते य ।
पारिट्ठावणिदोसो, अहिंगम्मि य होइ आणीए । 6 एवमुक्त आचार्यः प्राह-नोदक ! तत्र पात्रे लिप्यमाने सविशेषतरा आत्मोपघातादयो दोषाः ॥ ४८३ ॥ तथा चाह
ऎवं पि भाणभेदो, वियावडे अत्तणो उ उवधाओ।
निस्संकियं च पायम्मि गिण्हणे ईयरहा संका ॥ ४८४ ॥ 'एवमपि तत्र गत्वा पात्रलेपनेऽपि ऊर्द्धस्थितो लेपं गृहीत्वा भाजने प्रक्षिपति, तत्र व्या10तस्य सतः कदाचिद् हस्ताद् भाजनं पतेत् , तत एवं व्याप्ते भाजनभेदः । तथा कथमपि शक
टस्य पतनत आत्मनश्चोपघातः । किञ्च पात्रे लेपस्य ग्रहणे गृहीत्वा च तत्रैव पात्रस्य लेपने क्रियमाणे तेषां साक्षात् पश्यतामेवं निःशङ्कितं भवति, यथा-एतेनाशुचिना लेपेन भोजनपात्रममी लिम्पन्ति; ततो महान् प्रवचनोपघातः । 'इतरथा' तत्र पात्रालेपने शरावे च लेपस्य
ग्रहणे शङ्कोपजायते-किं पात्रस्य लेपनाय उत दुःखयतः पादस्य पिण्डीबन्धनाय लेपमाददते ? 15 ततो न प्रवचनोपघातः ॥ ४८४ ।। यदप्युक्तं "भारेण हस्तोपघातः" (गा० ४८२) इति तत्रापि प्रत्युत्तरमाह
जैइ वा हत्थुवधाओ, आणिजंतम्मि होइ लेवम्मि।
पडिलेहणादि चेट्ठा, तम्हा उन काइ कायव्वा ॥४८५ ॥ यदि लेपे आनीयमाने भारेण हस्तोपघात इति नानयनं क्रियते तर्हि न कदाचिदपि प्रति20 लेखनादिका क्रिया कर्त्तव्या, तत्रापि यथायोगं हस्त-पादादेरुपघातसम्भवात् । तस्माद्यथा प्रतिलेखनादिका क्रियाऽवयं कर्तव्या तत्करणे गुणसम्भवाद् एवं लेपानयनमपि ॥ ४८५ ॥
तदेवं "हत्थोवघाय गंतूण लिंपणा" (गा० ४८२) इति व्याख्यातम् । अधुना “सोसणा य हत्थम्मि" (४८२) इति व्याख्यानयति
जति नेवं तो पुणरवि, आणे लिंपिऊण हत्थम्मि ।
____ अच्छति धारेमाणो, सद्दवनिक्खेवपरिहारी ॥ ४८६ ॥ ___ यदि नाम तत्र गत्वा पात्रं लेपनीयमिति नैवमिष्यते अनन्तरोदितानेकदोषप्रसङ्गात् ततः पुनरपि किञ्चिद् वक्तव्यम्-लेपमानीय पात्रं लिप्त्वा 'सद्रवनिक्षेपपरिहारी' सद्रवनिक्षेपपरिहारमिच्छन् हस्ते पात्रं धारयन् तावत् तिष्ठति यावल्लेपस्य शोषो भवति एवं क्रियताम् ॥४८६॥ अत्राऽऽचार्यः प्राह
एवं पि हु उवघातो, आयाए संजमे पवयणे य ।
मुच्छादी पवडते, तम्हा उ न सोसए हत्थे ॥ ४८७ ॥ १र्य आह डे० त०॥२ चोदक कां० मो० भा० ॥ ३ एवं भायण ता० ॥ ४ इहर° ता० ॥ ५ गाथेयं नास्त्यादृता चूर्णिकृता॥ ६°श्यं क्रियते त° डे० त० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org