Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 393
________________ ॥३७६॥ इमं निरुहाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई व फासे, लोयं च पास विफदमाणं, जे निव्वुडा पावहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा ___ अतिविजो नो पडिसंजलिजासि तिबेमि ॥ सू० १३६ ॥ इति तृतीय उद्देशकः ॥४-३॥ 'इदं मनुष्यत्वं निरुद्धायुष्क' निरुद्धं-परिगलितमायुष्क 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात् , किं च-दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरूपमाह-'पुढो' इत्यादि, पृथक् सप्तनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान्' दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणे दुःखमनुभवतीत्यागामीनि पृथग दुःखानि च स्पृशेद्-अनुभवेत् , तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह-'लोयं च' इत्यादि, न केवलं क्राधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्नं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं पश्य' विवेकचक्षुषाऽवोकय । ये त्वेवं न ते किम्भूता भवन्तीत्यत आह-'जे निव्वुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाग्न्युपशमाभिवृताः-शीतीभूताः पापेषु कर्मसु 'अनिदाना: निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह-'तम्हा' इत्यादि, यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान्-विदितागमसद्भावः सन्न प्रतिसवले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः कषायोपशम कुर्वित्यर्थः । इतिरधिकारपरिसमाप्ती, प्रवीमीति पूर्ववत् । सम्यक्त्वाध्ययने तृतीयोदेशकटीका समाप्तेति ॥४-३॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३४॥

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472