Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्य. ५ उद्देशका ५
श्रीआचागणवृत्तिः (शीलाङ्का.) ॥४५२॥
वादिना निर्मर्यादतया जनतातिगानां न्यक्कारपदव्याधानमनुत्तरमेवोत्तरमिति । अपि च-'अब्रह्मचयरक्तमू ः परदारघर्षणाभिरतैः । मायेन्द्रजालविषवत्प्रवर्तितमसत्किमप्येतत् ॥१॥" तथा-मिथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशन्या । धर्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीदृशोऽन्यः? ॥२॥" इत्यनया दिशा सर्वेऽपि तीथिंकवादाः सर्वज्ञवादमनुसृत्य निराकार्या इति स्थितं । तन्निराकरणं च सर्वज्ञप्रवाद निराकार्यं च तीथिकवादमेभित्रिभिः प्रकारर्जानीयादित्याह-मननं मति:--ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा- तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन इयं सच्छोभनया मिथ्याकलकाङ्करहितया मत्याऽवगच्छेत् , स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत् पर:--तीर्थकृत्तस्य तेन वा व्याकरणं--यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात् , तथाऽप्यनवगमेऽन्येषामाचार्यादीना अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ॥ अवधार्य च किं कुर्यादित्याहनिद्देसं नाइवढेजा मेहावी सुपडिलेहिया सव्वओ सव्वप्पणा सम्मं समभिण्णाय, इह आरामं परिणाय अल्लीण गुत्तो परिव्वए निडियट्ठी धोरे आगमेण सया परक्कमेजासि त्तिबेमि ॥सू० १६८॥ निर्दिश्यत इति निर्देशः-तीर्थकरायुपदेशस्तं नातिवर्तेत 'मेधावी' मर्यादावानिति । किं कृत्वा निर्देशं नातिवर्ततेत्यत आह--सुष्ठ प्रत्युपेक्ष्य हेयोपादेयतया तीथिंकवादान् सर्वज्ञवाद च 'सर्वतः सर्वैः प्रकारैव्यक्षेत्रकालभावरूपैः सर्वात्मनासामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहमन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवर्ती तीर्थिक प्रवादनि
॥४५२॥

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472