Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 471
________________ ॥ ४५७ ।। उक्तं च-"दग्घेन्धनः पुनरुपैति भवं प्रमध्य, निर्वाणमप्यनवधारित भीरुनिष्ठम् । मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १ ॥” तथा च न विद्यते सङ्गोऽमूर्त्तत्वाद्यस्य स तथा तथा स्त्री न पुरुषो नान्यथेति--न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परि:- समन्ताद्विशेषतो जानातीति परिज्ञः, तथा सामान्यतः सम्यरजानाति - पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न ज्ञायते मुक्तात्मा तथाऽप्युपमाद्वारेणादित्यगतिरिव ज्ञायत एवेति चेत्, तन्न, यत आह--उपमीयते सादृश्यात् परिच्छिद्यते यया सोपमा--तुन्यता सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषां कृतं ऐतदिति चेदाह तेषां मुक्तात्मनां या सत्ता-सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किं च न विद्यते पदम् अवस्थाविशेषो यस्य सोऽपदः, तस्य पद्यते-गम्यते येनार्थस्तत्पदम् - अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात्, तथाहि--योऽभिधीयते स शब्दरूप - गन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतद्दर्शयितुमाह, यदिवा दीर्घं इत्यादिना रूपादिविशेषानराकरणं कृतं, इह तु तत्सामान्यनिराकरण कतु काम आह से न सद्दे न रूवे न गंधे न रसे न फासे, इच्चेव तिबेमि ।। सू० १७१ ॥ ॥ इति षष्ठ उद्देशकः ॥ ५-५ ॥ ॥ इति पञ्चममध्ययनम् ॥ ५ ॥ ॥ ४५७ ॥

Loading...

Page Navigation
1 ... 469 470 471 472