Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 469
________________ ॥४५५॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ अच्चेइ जाईमरणस्स वमग्गं विक्खायरए, सव्वे सरा नियति, तका जत्थ न विजइ, मई तत्थ न गाहिया, ओए, अप्पाहाणस्स खेयन्ने, से न दीहे न हस्से न च? न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिद्देन सुकिल्ले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाएं न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उण्हे न निडे न लुक्खे न काऊ न रुहे न संगे न इत्थी न पुरिसे न अन्नहा परिन्ने सन्ने उवमा न विजए, अरूची सत्ता, अपयस्स पयं नत्थि ॥ सू० १७०॥ 'अत्येति' अतिक्रामति जातिश्च माणं च जतिमरणं तस्य 'वट्टमरगति पन्थानं मार्ग उपादानं कर्मेतियारत , तद. त्येति--अशेषकर्मक्षयं विधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह--विविधम्--अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसंयमानुष्ठानार्थन्वेन व्याख्यातो मोक्षः--अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरतः, आत्यन्तिकैकान्तिकानावाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते । किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दैरभिधीयेत इत्येतत्प्रतिपादयितुमाह-'सर्वे' निरवशेषाः 'स्वरा वनयस्तस्मान्निवर्तन्ते, तहाच्यवाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि-शन्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङकेतकालगृहीते तसल्ये वा प्रवर्तेरन्, न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 467 468 469 470 471 472