Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 470
________________ श्रीआचाराजवृत्तिः शीलाङ्का.) सम्य०५ उद्देशकः ५ ।१५६॥ मोक्षावस्थेति । न केवलं शब्दानभिधेया, उत्प्रेक्षणीयापि न सम्भवतीत्याह--सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तक्क:- एवमेवं चैतत्स्यात् , स च यत्र न विद्यते ततः शब्दानां कुतःप्रवृत्तिः स्यात् । किमिति तत्र तर्काभाव इति चेदाह-मननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात् , तत्र च मोक्षे काशसमन्वितस्य गमनमाहोश्विन्निष्कर्मणः १, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतदर्शयितुमाह-'ओजः' एकोऽशेषमलकलङ्काङ्करहितः, किंच-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो' निपुणो, यदिवा अप्रतिष्ठानो--नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोकनाडि पर्यन्तपरिज्ञानादनेन च समस्तलोकालोकखेदज्ञता आवेदिता भवति । सर्वस्वरनिवर्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुनाह--'स' परमपदाध्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दी| न ह्रस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलो वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुरः स्पर्शमाश्रित्य न कर्कशो न मृदुर्न लघुर्न गुरुने शीतो नोष्णो न स्निग्धो न रुक्षो 'न काऊ' इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनाम्-'एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति आदित्यरश्मय इवांशमन्तमिति', तथा न रुहा 'रुह बीजजन्मनि प्रादुर्भावे च' रोहतीति रुहः, न रुहोऽरुहः, कर्मबीजामावदपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यानां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, ܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥४५६।

Loading...

Page Navigation
1 ... 468 469 470 471 472